This page has not been fully proofread.

काव्यकल्पलतावृत्ति
 
एतैः काव्यद्वयपदार्थैरन्यैरपि पूर्वोक्तसन्धाहकृत्यादिकाव्यचतुष्टयोक्ता
अन्येऽपि गुणा दोषाच नपुंसका नपुंसकैः पुल्लिङ्गाः पुल्लिङ्गः,
स्त्रील्लिङ्गाः, यथौचित्यं भेद्यादिरूपकचतुष्टयविधिना योज्याः । भेद्यं यथा ।
कोपपावकपर्जन्यः ।
 
स्त्रोलिङ्गः
 
तोष्यं यथा – विवेकाम्भोजभास्करः ।
 
-
 
आधारो यथा । गुणरत्नपयोराशिः । आधेयं यथा – गुणाम्बरनिशाकरः ।
नपुंसकलिङ्ग पुल्लिङ्गशब्दा: शौर्यशमादय: स्त्रीलिङ्गा रोप्या भवन्ति ।
यथा— शौर्यंलक्ष्मीलताभेद्यः शमश्रीकौमुदीविधुः । महःशोभाञ्जिनीसूर्यो दान-
स्थितिसुधाम्बुधिः । स्त्रीलिङ्गशब्दाः सन्धाहकृतिप्रभृतयः पुरःस्थितैः प्रपञ्च-
विस्तारप्रसरप्रायशब्दैनँपुंसकलिङ्गा रोप्यार्हा भवन्ति । यथा-
सन्धाविस्तारपाथोधिविधुरेष क्षमापतिः ।
विद्याप्रसरवृक्षाब्द: प्रज्ञोत्कर्षनभो रविः ॥ ६७ ॥
 
एतच्चतुर्विधानामपि द्विपक्तिरूपकं भवति ।
प्रथमं भेद्यं द्विपङ्क्तिरूपकम् यथा -
 
प्रतिज्ञावाहिनीपूरपरिप्लुतरिपुद्रुमः ।
 
इदमपि रूपकं वैपरीत्येन यथा -
 
द्वेषिवृक्षपरिप्लाविप्रतिज्ञावाहिनीरयः ॥ ६८ ॥
प्रतिज्ञाचन्द्रिकापुरम्लानवैरिमुखाम्बुजः ।
द्वेषिवक्ताम्बुजद्रोहिप्रतिज्ञाचन्द्रिकारयः ॥ ६६ ॥
शौयंदावानलप्लुष्टद्वेषिकीतिलतादवः ।
द्वेषिकीर्तिलताद्रोहिशौर्य दावहुताशनः ॥ ७० ॥
 
धैयंसूर्यपरिम्लानवैरिकैरवकाननः ।
वैरिकैरवकान्तारग्लानिकृद्धैर्यंभास्करः ॥ ७१ ॥
 
शमस्रोतस्विनीपूरशान्तक्रोधहुताशनः ।
 
क्रोधदावानलच्छेदिश्रमस्रोतस्विनीरयः ॥ ७२ ॥
 
कलाकादम्बिनीशास्तद्विषतेजोहताशनः ।
द्विषत्तेजोदवच्छेदिकलाकादम्बिनीभरः ॥ ७३ ॥
 
विद्यास्रोतस्विनीवाहमिन्नवादिमहोरुहः ।
 
बादिभूरुहविद्रोहिविद्याकूलङ्कषारयः ॥ ७४ ॥
 
YST
 
1