This page has not been fully proofread.

१२
 
काव्यकल्पलतावृत्तिः
 
अमरचन्द्रयतिः
 
अमरचन्द्रयतेः काव्यकल्पलतावृत्तिरस्ति कविशिक्षाविषयकोऽयमपूर्वो ग्रन्थः ।
केचन अरिसिंह-अमरचन्द्रयोः सम्मिलिता रचनेयमिति मन्यन्ते । किन्तु ग्रन्थस्यावलोक-
नेनास्याः सूचना कुत्रापि न प्राप्यते । ग्रन्थस्य पुष्पिकाया अवलोकनेन ज्ञायते यदयमर-
चन्द्रयतिः जिनदत्तस्य शिष्य आसीत् । अन्तःसाक्ष्येनापि पित्रोर्नामास्य ज्ञातं न
भवति । जैनसम्प्रदायस्य यतित्वे सम्प्राप्ते तेन स्वकीयपूर्वसम्बन्धस्योल्लेखो न कृतः ।
अमरचन्द्रस्य कालः
 
अरिसिंहकृतकवितारहस्यसूत्रोक्तमधिकमंशं गृहीत्वा तदुपरि वृत्तिं निर्माय सोऽयम-
मरचन्द्रः काव्यकल्पवृत्तिमरचयत् । अरिसिंहामरचन्द्रयोरुभयोरप्येक एव गुरुः जिनदत्तः
आसीत् । केचन सुकविसङ्कीर्तनग्रन्थस्य कर्तृत्वमपि अरिसिंहामरचन्द्रयोः स्वीकुर्वन्ति ।
केचन कथयन्ति यत् काव्यकल्पलताया अंशतो निर्माणं तु अरिसिंहोऽकरोत्, किन्त्वस्य
ग्रन्थस्य पूर्णता तु अमरचन्द्रेणैव विहिता । अमरचन्द्र एवास्य वृत्तिमपि लिलेख ।
अरिसिंहस्य पितुर्नाम लावण्यसिंहः आसीत् । अयं गुर्जरप्रदेशस्य ढोलकराज्यस्य रणधीर-
धवलस्याप्तसचिवस्य वस्तुपालजैनस्य मित्रमासीत् । अस्य वस्तुपालस्य प्रशंसायामनेन
सुहृत्सङ्कीर्तननामकं काव्यमपि प्रणीतम् । धीरधवलवस्तुपालयोः समयः त्रयोदशख्रीष्टाब्दः
मन्यते । अतः अमरचन्द्रस्यापि समयः त्रयोदशशतकस्य मध्यभाग एव भवितु-
मर्हति ।
 
अमरचन्द्रस्य कृतयः
 
काव्यकल्पलतावृत्तौ स्वयं ग्रन्थकारेण स्थाने स्थाने छन्दोरत्नावली-काव्यकल्प-
लतापरिमल-अलङ्कारप्रबोधानां नामोल्लेखः कृतः । काव्यकल्पलतायाः महाराष्ट्रीयभाषा-
टीकां कुर्वता पण्डितप्रवरेण वामनशास्त्रिणा द्रौपदीस्वयंवरस्योल्लेखः अमरचन्द्रस्य कृतित्वेन
कृतः । अस्य कृतित्वेन बालभारतस्याप्युल्लेखः प्राप्यते । डॉ० श्यामसुन्दरदासदीक्षित-
प्रभृतयो विद्वांसः अस्यामरचन्द्रस्य त्रयोदशसंख्याकाः ग्रन्थाः स्वीकुर्वन्ति । ते च
सन्ति छन्दोरत्नावली, काव्यकल्पलतापरिमलः अलङ्कारप्रबोध:, बालभारतम्, पद्मानन्दः,
सुकृतसङ्कीर्तनम्, चतुर्विंशतिजिनेन्द्रसङ्क्षिप्तचरितानि, स्यादिशब्दसमुच्चयः, कला-
कलापः, सूक्तावली, काव्यकल्पलता कविशिक्षा वा, काव्यकल्पलतावृत्तिश्च ।
काव्यकल्पलतावृत्तिः
 
-
 
''
 
ग्रन्थस्यास्य पुष्पिकायाममरचन्द्रयतिः स्वयं कथयति यदमरचन्द्रविरचितायां काव्य-
कल्पलताशिक्षावृत्ताविति । तेनानुमीयते यत् काव्यकल्पलतोपरि रचिता कविशिक्षा-
वृत्तिरेव सम्प्रति काव्यकल्पलतावृत्तिनाम्नावबोध्यते । कविशिक्षाविषयकोऽयमपूर्वो
ग्रन्थः । काव्यकरणाभ्यासे समुत्पद्यमानकाठिन्यदोषान् दूरीकर्तुं विस्तृतं प्रकाशं वितरति
ग्रन्थोऽयम् । काव्यकल्पलतावृत्तौ चत्वारः प्रतानाः सन्ति । प्रत्येकस्मिन् प्रताने अनेके