2023-04-09 14:29:52 by ambuda-bot
This page has not been fully proofread.
१४४
काव्यकल्पलतावृत्तिः
इत्यादि । नदोसरःप्रभृतोनां जलस्थानानामम्भोजमाधेषम् । नीतिस्रोतस्विनी
पद्मम् । राजा राज्यसरोऽम्बुजमित्यादि ।
नभोब्धिशिवभालानां चन्द्र आधेयम् । यथा - कुलाकाशे निशानाथो
ज्ञानाब्धी हिसदीधितिः । इत्यादि ।
आकाशस्य रविराधेयम् । महीपालकुलाकाशप्रकाशन दिनेश्वरः, इत्यादि ।
धराद्रिवनादीनां वृक्ष आधेयम् । यथा - संसारभूमिकल्पद्रुः कुलाद्रौ देवपादपः ।
राज्यारामरसाल दुरित्यादि ।
आधेयं केवलैः क्वचित् ॥ ११ ॥
मौले: किरीटमाल्यमाणिक्यतिलकादय आधेयम् । अत्र केवलेन मोलिना
रूपकरहितेन आधेयं कोटीरादि रूपकं भवति । यथा - भूपालमौलिकोटीस्माल्य-
माणिक्यमिति । तथा कुलतिलक इति ।
वृक्षस्य लतायाश्च पत्रपुष्पफलशाखामूल कन्दपक्षिजातिप्रभृतय आधेयम् ।
पर्वतस्य नदीवृक्षरत्नमृगसंहपुलिन्दगजकिन्नरादय आधेयम् । नद्याः पद्मभ्रमर-
हंसचक्रवाकमत्स्यादय आधेयम् । समुद्रस्य चन्द्रसुधावडबाग्निरत्नशङ्खश्रीमुक्ता-
तरङ्गश्रीमत्स्यविद्रुमफेनविष्णुविषादय आधेयम् । चन्द्रस्य ज्योत्स्नाकलाकलङ्का-
दय आधेयम् । आदित्यस्य तापकिरणादि आधेयम् । आकाशस्य चन्द्रार्कतारा-
गङ्गाप्रभृतय आधेयम् । पातालस्य गङ्गानागदैत्यहट्टकेश्वरतमः सुधाकुण्डादय
आधेयम् ।
स्वर्गस्य देवेन्द्रविमानकल्पद्रुनन्दनवनगङ्गामन्दारपारिजात कहरिचन्दन-
सन्तानकादय आधेयम् । मेरोर्देवस्वर्गकामधेनुचिन्तामणिमन्दारप्रभृतय आधेयम् ।
कामिन्याः सीमन्तकुङ्कुमस्तब कलीलाकमलादर्श कुण्डलकसुणकेयूरहा रमञ्जीर-
स्मितकटाक्षधम्मिल्ल वेणीकुचसुखकरचक्षूर्नामादय आधेयम् । वनस्य सरसी-
वापिकाहंसचक्रवाकवृक्षपर्वत भ्रमरगजसिंहसहकारादिवृक्षपुष्पस्तब कपुलिन्दक-
तस्करमृगादय आधेयम् । गजस्य आदर्शसिन्दूरभूषणाङ्कुशवरत्रागुडिकोष्टकपताका-
योधमुखपटकर कुकुम्भस्थलदन्तकर्णपादादय आधेयम् ।
मण्डपस्य
कुम्भलतास्तम्भचन्द्रोदयचन्दनमालामुक्तावचूलपुष्पप्रकरादय
आधेयम् । विन्ध्यस्य गजनर्मदादय आधेयम् । हिमाचलस्य गङ्गाहिम कस्तूरिका-
मृगदेवदारुकिन्नरौषधिचामरप्रभृतय आधेयम् । मलयाद्रेश्चन्दनदक्षिणानिलादय
आधेयम् । रोहणस्य रत्नाद्याधेयम् । कैलासस्य शिवगौरीमानसधनदादय
बधेयम् । गृहस्य स्तम्भकपाटद्वारादय आधेयम् ।
E