2023-04-09 14:29:51 by ambuda-bot
This page has not been fully proofread.
चतुर्थ प्रताने प्रथमः स्तबकः
तर्के दिङ्नागधर्मंकोर्ब्युद्योतनकरादयः । छन्दसि पिङ्गलाचार्यः । अश्वहृदयज्ञाने,
रसवत्याञ्च नलः । कामशास्त्रे वात्स्यायनः । नीतिशास्त्रे चाणक्यः । पुरुष-
स्त्रीलक्षणे समुद्रः । वेदे ब्रह्मा । रसवादे व्याडिनागार्जुनौ । धारावेधे अर्जुनः ।
धनुषि पिनाकी । वच्चे इन्द्रः । चक्रे विष्णुः । गदायां भीमः । पाशे वरुणः ।
दण्डे यमः । शक्तौ कार्तिकेयः । चन्द्रहासे रावणः । लाङ्गले बलभद्रः । परशौ
परशुरामः । वास्तुशास्त्रे विश्वकर्मा । मल्लविद्यायां चाणूरमल्लः । छुरिविद्यायां
वेतालभृगू । मायायां विष्णुः । धूर्त्तत्वे मूलदेव: । परोपकारे जीमूतवाहनः ।
अथ दोषः। कुचङ्क्रमणे उष्ट्रस्वरशृङ्गालाः कुचरे उष्ट्रमार्जारखरघरट्ट-
काकधूकटिट्टिभाः । कायकृशत्वे वेतालभृङ्गिरिटी । क्रौर्ये मार्जारः । दम्भे बकः ।
नीचगमने नदी । चापल्ये मर्कट: । कोपे सर्पः । भीरुत्वे शृगालः । तुच्छत्वे
हस्तजलम् ।
मानादिषु दुर्योधनादीनामुदाहरणम् ।
यथा-
माने दुर्योधनो न्याये रामः सत्त्वे युधिष्ठिरः ।
आज्ञायां लङ्केश्वरः शक्तौ कार्तिकेयो धराधवः ॥ ६३ ॥
वाक्चातुर्ये सुराचार्यो गम्भीरत्वे सरित्पतिः ।
मेरुधैर्ये हरिः शौर्ये प्रतापे तपनो नृपः ॥ ६४ ॥
अथवा एभिः सन्धादिकैर्गुणैः सन्धादिगुणवन्तश्चाणक्यादयो जीयन्ते ।
सन्धानिर्जितचाणक्यो माननिर्जित रावणः ।
प्रतापजितमार्तण्डो राजते पृथिवीपतिः ॥ ६५ ॥
आधेयं रूपकं यथा-
सिंह रत्नसरोऽम्भोज चन्द्रादित्यनुमादयः ।
स्वाधारै रूपकप्रोक्तेः-
वनपर्वतगुहादीनां सिंह आधेयम् । यथा – कुलकाननसिंहोऽयम्, इत्यादिकं
ज्ञेयम् ।
समुद्रताम्रपर्णी रोहणादिप्रभृतीनां रत्नमाधेयम् । यथा – कुलाम्भोनिधि-
माणिक्यम् । भूपर्वतारण्यादोनां सर आधेयम् । यथा - भवारण्ये सुधासरः ।
वंशपर्वतपीयूषसरोवरमयं नृपः ।
भूरि स्फुरति संसारमरुभूरिसुधारस ॥ ६६ ॥