2023-04-09 14:29:50 by ambuda-bot
This page has not been fully proofread.
१४०
काव्यकल्पलतावृत्तिः
नेदं मुखं शशी किं तु स्युरपह्नुतिवाचकाः ।
छलाकृतिशरीरार्थमुख्याः शब्दा यथा तथा ॥ ५८ ॥
त्रिमार्गामिषतो व्यापत्त्वत्कीर्तिजंगतां त्रयम् ।
इयं भेदे द्वयोर्व्यतिरेको मुखं शशी समौ ॥ ५६ ॥
आद्यं निर्लाच्छन मियं प्रतिपत्तु मे भवेत् ।
भ्रान्तिमान् पीडितश्चक्रो मुखं प्रेक्ष्य शशिभ्रमात् ॥ ६० ॥
एवं भवन्त्युपमाया बहुरूपाः प्रवृत्तयः ।
अन्तस्थरूपकोत्प्रेक्षाप्युपभोपक्रमाद्भवेत् ॥ ६ ॥
यथा-
पल्लवैर्नवरागेव सकटाक्षेव षट्पदैः ।
हसतीव स्मितैः पुष्पैर्वसन्तागमने वनी ॥ ६१ ।
उत्प्रेक्षाद्योतकाः शङ्के मन्ये नूनमिव ध्रुवम् ।
जाने किलाऽऽदयो ज्ञेयाः प्रायेणेयं क्रियोद्भवा ॥ ६२ ॥
क्रियाप्रपञ्चनं क्रियास्तबकतो ज्ञेयम् । उपमारूपकयोरनेकालङ्कारबीजत्वा-
दुपमा पूर्वं प्रपश्चिता ।
रूपकं प्रपञ्च्यते । यथा रूपकं चतुर्द्धा भवति । भेद्यम्, तोष्यम्, आधारः,
आधेयम् ।
वनाट्वे भवेद्भेद्यं रूपकं तोष्यमम्बुदे ।
भुव्याधारस्तथाऽऽधेयं सिंहे वर्ण्य विशेषतः ॥ ७ ॥
वनादिति पदं दवे अम्बुदे भुवि सिंहे च योज्यम् ।
भेद्यं रूपकं यथा-
—
ध्यान्ताहिबिषनागाब्धिशैलवृक्षघनाग्नयः ।
रक्षःपड्कादयो भेद्या रूपकोक्त्यारिरूपकैः ॥ ८ ॥
यथा – ध्वान्ते रविचन्द्ररत्नदीपकाः, सर्पाणां गरुडनकुलमयूरजाङ्गली-
मन्त्रवादिनः, विषस्य नीलकण्ठाभृते, हस्तिनां सिंहाङ्कुशवार्यालानस्तम्भादिकाः,
समुद्रस्यागस्त्य प्रलयानलवाडवपरशुरामाग्नेयबाणतरी सेतु हनुमन्मन्दराद्रयः,
गिरीणां वज्रम्, वृक्षस्य लतायाश्च दावानलवायुनदीरयहस्तिविद्युत्पातकुठाराः,
मेघस्य वातवर्षात्ययौ, अग्नेर्जलमेघौ, रक्षसां रामकृष्णी, पकस्य शरदागमादित्य-
-