2023-04-09 14:29:50 by ambuda-bot
This page has not been fully proofread.
8
चतुर्थप्रताने प्रथमः स्तबकः
आननं तव पूर्णेन्दुदशं पश्यामि कामिनि ॥ ५० ॥
पूर्णेन्दोरिव दर्शनं पूर्व कर्मणि चोपमाने णम् ।
पूर्णेन्दुमिव दृष्ट्वेत्यर्थः ।
मुखं पूर्णेन्दुविद्योतं सुदति द्योतते तव ॥ ५१ ॥
पूर्णेन्दुनेव विद्योतनं पूर्वं कर्त्तरि च णम् ।
यथा पूर्णेन्दुना द्योत्यते तथा द्योत्यते इत्यर्थः । धर्माणां विपर्य्ययाद्यथा-
कलाभिः सकलाभिः स पूर्णेन्दुरिव भासते ।
स मुदं सुहृदामिन्दुः कुमुदानामिवाकरोत् ॥ ५२ ॥
स चकार चकोराणामिवेन्दुर्मुदमर्थनाम् ।
भूमोन्द्रोऽभूषयद्भूमि तमोमिव तमोपतिः ॥ ५३ ॥
तोष्यभेद्याधाराधेवभेदभिन्ना तथोपमा ॥ ३ ॥
तोष्यभेदाः, यथा-
स सखीन् तोषयामास चक्रानिव दिवाकरः ।
स द्विषः शोषयामास पानिव पतिस्त्विषाम् ॥ ५४ ॥
अशोभिष्ट स भूपृष्ठे नभसीव नभोमणिः ।
कलानां निलयः सोऽभूद्भासां भासां विभुर्यथा ॥ ५५ ॥
तांष्यादिप्रपञ्चनं रूपकाभ्यासे करिष्यते । एवं लुप्तोपमा मालोपमा
रसनोपमा उत्पाद्योपमा कल्पितोपमा ।
उपमेयोपमाद्यास्तु यथालक्षणमभ्यसेत् ।
उपमायां हि सिद्धायां बद्दलङ्कारसिद्धयः ॥ ४ ॥
१३६
तथा हि-
उपमैव विनेवादि रूपकं वदनं विधुः ।
इयमेकस्योपमानोपमेयत्वे त्वनन्वयः ॥ ५ ॥
मुखं मुखमिवेयन्तु स्मरणं स्मृतियोगतः ।
प्रियामुखं च सस्मार प्रियः पूर्णेन्दुदर्शनात् ॥ ५६ ॥
स सन्देहस्तु कियोगे कि मुखं कि सुधाकरः ।
इदं नेदं किन्त्वादियोगतोऽपह्नुतिर्मंता ॥ ५७ ॥