This page has not been fully proofread.

budg
 
१३८
 
काव्यकल्पलतावृत्तिः
 
विपर्य्ययात्सर्वत्र सम्बध्यते । विभक्तिविपर्ययादभ्यासः, यथा-
स विपक्षान् प्रचिक्षेप तमस्स्तोममिवार्यमा ।
द्विषस्तं नाभियुध्यन्ते ध्वान्तोद्भेदा रवि यथा ॥ ३७ ॥
रविणैवान्धकाराणि तेन चिक्षिपिरे द्विषः ।
द्रुह्यन्ति दुर्जनास्तस्मै धूका इव दिवाकृते ॥ ३८ ॥
तत्रसुः शत्रवस्तस्माका इव दिवाकरात् ।
तमोवद्रिपवस्त्रस्तास्तस्यार्कस्येव तेजसा ॥ ३६ ॥
रवाविवोदिते तत्र शत्रवो ध्वान्तवद्गताः ॥ ४० ॥
 
षट्पदी ।
उपमानोपमेययोविपर्ययाद्यथा -
 
-
 
उपमानं यद्भवति तदुपमेयं क्रियते ।
विजयी विद्विषोऽजैषीद्भास्वानिव तमोभरम् ॥ ४१ ॥
अध्वंसत रविध्र्ध्वान्तं विजयी विद्विषो यथा ।
'लुलितालकवल्लीभिर्भासते भामिनीमुखम् ॥ ४२ ॥
लुलल्लीनालिमालाभिर्नलिनी नलिनं यथा ।
प्रफुल्लं पद्मिनीपद्मं प्रेङ्खषट्पदपङ्कजम् ॥ ४३ ॥
कान्तामुखमिवाभाति विलोलालकवल्लिभिः ॥ ४४ ॥
इत्यादि । उपमावाचकानां विपर्य्यंयाद्यथा-
º
 
मुखं भाति यथाम्भोजं भात्यम्बुजमिवाननम् ।
अम्भोजं वा मुखं भाति मुखं पद्मनिभं बभौ ॥ ४५ ॥
स्मिताम्भोजसुहृद्वक्त्रं स्मितपद्मद्विषन्मुखम् ।
मुखं पद्मप्रतिच्छन्दं मुखं स्मितसरोजवत् ॥ ४६॥
मुखं कमलकल्पं तत्पद्मदेश्यं प्रियाननम् ।
पद्मदेशीयमास्यं ते भाति पद्ममुखो प्रिया ॥ ४७ ॥
पद्मन स्पर्द्धते वक्त्रं पद्मं जयति ते मुखम् ।
मुखमम्भोरुहं द्वेष्टि मुखं पद्मानुकारकृत् ॥ ४८ ॥
मित्रीयति मुखं चन्द्रः पद्मीयत्यनिलो मुखे ।
पहायते वक्त्रं परुति तन्मुखम् ॥ ४९ ॥
१. ललल्लीति पाठान्तरम् । २. पङ्क्तिभिरिति पाठान्तरम् ।
 
i