This page has not been fully proofread.

चतुर्थप्रताने प्रथमः स्तबक
 
जिह्वायास्त्वचलो दोला वाण्या भृङ्गीपिकोरवी ।
सुधा मधु च वक्त्रस्य शशी पङ्कजदर्पणौ ॥ २५ ॥
कण्ठस्य कम्बुरंसस्य कुम्भौ बाह्रोश्च वल्लरी ।
मृणाललहरी शाखापाशा: पाणिपदस्य तु ॥ २६ ॥
पल्लवोऽम्बुजमङ्गल्या: पल्लवो नखपद्धतेः ।
रत्नताराप्रसूनानि स्तनयोः स्तबकी घटी ॥ २७ ॥
कुम्भिकुम्भौ गिरी चक्री स्तम्बो मध्यस्य वेदिका ।
सिंहशक्ती च रोमाल्या रेखामृणालवल्लयः ॥ २८ ॥
नाभेरम्भोजमावर्ती हृदो विवरकूपको ।
 
त्रिवल्या वोचिसोपाननिश्रेण्यो जघनस्य तु ॥ २६ ॥
 
पुलिनं पीठफलके नितम्बस्य स्थलं पुनः ।
ऊर्ध्वोः कदलिकास्तम्भेभकरी करभस्तथा ॥ ३० ॥
 
जङ्घायुगस्य च स्तम्भौ गतेहंसमतङ्गजौ ।
इमान्यन्यान्यपि स्त्रीभ्य उपमानं यथोचितम् ॥ ३१ ॥
पुंसोऽङ्गे तूपमानानां विशेषः कोऽपि कथ्यते ।
स्कन्धस्य वृषरक्ताक्षस्कन्धौ बाह्वोरहोश्वरः ॥ ३२ ॥
हस्तिहस्तपविस्तम्भार्गलादण्डाश्च वक्षसः ।
शिलाकपाटी यानस्य प्रमत्तोऽक्षगतिः पुनः ॥ ३३ ॥
 
एकैकेनापि धर्मेणोपमानं बहुधा भवेत् ।
 
धर्म्मा वर्णक्रियाकाराधाराधेयादयो मताः ॥ ३४ ॥
 
वयंस्य राजादेवंर्णादिमध्यादेकैकेनापि धर्मेण रव्यादिरुपमानमनेकधा
भवति । एक इवार्को बहुधोपमानम्, यथा-
नवार्क इव रक्तोऽयं तमोभेदी स भानुवत् ।
सद्वृत्तः सवितेवायं कुले भात्येष खेंऽशुवत् ॥ ३५ ॥
आदित्यवत्प्रतापी स सद्दिनः स दिनेशवत् ।
वसुभृत्स यथा सूर्य: स्मेरपद्मः स सूर्यवत् ॥ ३६ ॥
 
अभ्यास: स्याद्विभक्तीनामुपमानोपमेययोः ।
 
उपमावाचकानां च षर्माणां च विपर्थयात् ॥ २ ॥
 
१३७
 
का० - १५