2023-04-09 14:29:50 by ambuda-bot
This page has not been fully proofread.
१३६
काव्यकल्पलतावृत्ति।
सहस्रपत्रं पाश्र्वंस्थरथाङ्गमिथुनं यथा ।
उपमानोपमयेत्वं पर्यायेण द्वयोर्भवेत् ॥ ११ ॥
उपमेयोपमा मुखवदिन्दुरिन्दुवन्मुखम् ॥ १२ ॥
अथाभ्यासार्थमुपमावाचका उपमानानि धर्माश्च प्रपञ्च्यन्ते ।
षट्पदी ।
यथेववेत्यव्ययानि तुल्यमित्रारिवाचिनः ।
प्रतिबिम्बाद्याश्च शब्दा वतिकल्पमुखास्तथा ॥ १३ ॥
तद्धिता ध्वाङ्क्षरावीन्दुमुखीत्याद्याश्च वृत्तयः ।
स्पर्धेते जयति द्वेष्ट्यनुकरोत्यादिकाः क्रियाः ॥ १४ ॥
यिन्कर्माधिकरणयोरायः कर्तृसमुद्भवः ।
कर्म्मकत्रर्णमित्याद्या उपमावाचकाः स्मृताः ॥ १५ ॥
राजादीनां शिवब्रह्मविष्णुशेषसुरेश्वरान् ।
सूर्य्येन्दुजलदोदन्वदग्निसिंहाद्रिहस्तिनः ॥ १६ ॥
भूभूरुहनभोऽम्भोजमरालगरुडानिलान् ।
पुरारामसरोमुख्यानुपमानानि कल्पयेत् ॥ १७ ॥
भजन्ति भावाः सर्वेऽपि भावानामुपमानताम् ॥ १८ ॥
वेण्याः सर्पासिभृङ्गाल्य: केशपाशस्य चामरः ।
नीलकण्ठकलापोऽपि धम्मिल्लस्य विधुन्तुदः ॥ ११ ॥
सीमन्तस्याध्वदण्डौ च ललाटस्याष्टमीविधुः ।
फलकं च कपोलस्य चन्द्रमा मुकुर: स्थलम् ॥ २० ॥
ध्रुवोः खड्गधनुर्यष्टिरेखापल्लववल्लयः ।
दृशोश्चकोरहरिणमंदिराः खञ्जनोऽम्बुजम् ॥ २१ ॥
नीलोत्पलं च कुमुदं श्रुतेर्दोला च पाशकः ।
नासाया वंशोऽधोमुखतूणीरशुकचञ्चवः ॥ २२ ॥
तिलप्रसूनदण्डौ चाघरस्य नवपल्लवः ।
विम्बीफलं प्रवालं च दत्तानां मौक्तिकावलिः ॥ २३ ॥
कुन्ददाडिमबीजानि हीरकाच स्मितस्य तु ।
ज्योक्ता दुग्धं च पीयूषं प्रवासस्याम्भोजसौरभम् ॥ २४ ॥