2023-04-09 14:29:20 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
३. पश्चाध्वनिकाल:- मम्मटादारभ्य पण्डितराजजगन्नाथं यावत् । सहस्रवैक्रमाब्दारभ्य
सार्द्धसप्तदशशतकवैक्रमाब्दं यावत् ।
११
अस्य विभागस्य प्रवर्तकाः ध्वनेरेव प्राधान्यं स्वमनसि आकलयन्ति । तेषां
मतानुसारेण ध्वनिसिद्धान्त एव साहित्यशास्त्रस्य सर्वप्रधानः सिद्धान्तो वर्त्तते ।
सम्प्रदायदृष्ट्यापि अस्य कालस्याचार्याणां विवेचनं कर्तुं शक्यते, तद्यथा-
१. अलङ्कारसम्प्रदायस्याचार्या :- भामहेन प्रवर्तितोऽप्यलङ्कारसम्प्रदायस्तद्ग्रन्थव्याख्या-
तृभिः रुद्रटोद्भटादिभिरेव स्थिरतां प्रापितः । काव्येऽलङ्कारस्य प्राधान्यमपि येन केनापि
रूपेण दण्डिनोऽपि स्वीकृतमासीदेव । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एव
काव्यजीवातव: । अलङ्कारहीनं काव्यस्वीकरणं तथैवोपहासास्पदं यथोष्णतारहितमग्नि-
स्वीकरणम् । एतदेवोक्तं पीयूषवर्षजयदेवेन-
अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।
असौ न मन्यते कस्मादनुष्णमनलङ्कृती' ॥
पण्डितराजो जगन्नाथो विश्वेश्वरभट्टादिकाश्च सम्प्रदायस्यास्याचार्याः ।
२. ध्वनिसम्प्रदायस्याचार्या :- मम्मट, रुय्यकः, विश्वनाथः, हेमचन्द्रः, विद्याधरः,
विद्यानाथादयश्च ।
३. रससम्प्रदायस्याचार्या:- शारदातनयः, शिङ्गभूपालः, भानुदत्तः, रूपगोस्वाम्यादि-
काश्च ।
४. कविशिक्षाया आचार्या :- राजशेखरः, क्षेमेन्द्रः, अरिसिंह:, अमरचन्द्रः, देवेश्वरादि-
काश्च ।
१. चन्द्रा० १.८ ।
अलङ्कारनिबन्धकर्तारः प्राचीना अर्वाचीनाश्चाचार्या बहवो हि सञ्जाता: । तद्यथा
भरत-महर्षिव्यास-भट्टि-भामह- दण्डी- उद्भट - वामन रुद्रट-भोजराज-मम्मट-रुय्यक-शोभा-
करमित्र-अमृतानन्दयोगी-जयदेव-जयरथ-द्वितीयवाग्भट - विश्वनाथ - केशवमिश्र - अप्पयदीक्षित-
जगन्नाथप्रभृतयः ग्रन्थकर्तारः सन्ति । अन्ये च मेधावी - श्रीमत्स्थविर-आनन्दवर्धन-
राजशेखर-मुकुलभट्ट-प्रतीहारेन्दुराज-भट्टतौत-भट्टनायक-कुन्तक- अभिनवगुप्त धनञ्जय
धनिक-राजानक-महिमभट्ट-क्षेमेन्द्र-नमिसाधु-सागरनन्दी-हेमचन्द्र-वाग्भट्ट-रामचन्द्र-
गुणचन्द्र-अरिसिंह-शारदातनय- देवेश्वर - विद्याधर-विद्यानाथ-शिङ्गभूपाल-भानुदत्तमिश्र-रूप-
गोस्वामी - कविकर्णपूर- कविचन्द्र - आशाधरभट्ट-नरसिंहकवि- विश्वेश्वरपण्डित- अच्युतराय-
प्रभृतयोऽलङ्कारनिबन्धकर्तारः सन्ति । एतेषामाचार्याणां समयादिनिरूपणे भावभूमेः कलेवरं
स्थूलतां न भजेत्, तस्मात् समीक्ष्यग्रन्थस्य कर्तुः कालविषय एव किञ्चिदत्र प्रस्तूयते ।