This page has not been fully proofread.

अप चतुर्थप्रताने प्रथमः स्तबकः
अथार्थसिद्धिप्रतानस्तत्र प्रागलङ्काराभ्यासः ।
 
उपमाद्यानलङ्कारानभ्यस्येवर्थसिद्धये ।
हृद्यं साधर्म्यमुपमा सोपमानोपमेययोः ॥ १ ॥
 
धर्मोपमावाचकयोश्चोक्ती पूर्णा मता, यथा-
शशीवास्यं मुदं दत्ते लुप्तैकद्वित्रिलोपतः ।
उपमानस्य लोपे तु रम्यं मुखमिवास्ति नः ॥ १ ॥
धर्मंलोपे शशीवास्यं लोप धर्मोपमानयोः ।
कुसुमं मालतीतुल्यं न भृङ्गो लभते भ्रमन् ॥ २ ॥
धर्मेवाद्युपमानानां लोपे हरिणलोचना ।
एकस्मिन्नुपमेये तु बहूपमानयोगतः ॥ ३ ॥
अभिम्ने वाऽय भिन्ने वा धर्मे मालोपमा भवेत् ।
अनयेनेव नृपतिर्घाष्टर्पेनेव कुलाङ्गना ॥ ४ ॥
कापंण्येनेव कमला, कला गर्वेण दूष्यते ।
पीयूषमिव सुस्वादुर्भास्वानिव विबोधकृत् ॥ ५ ॥
 
ज्ञानीव तत्त्वनिष्णातः सतां वचनविस्तरः ।
यत्र यात्युपमानत्वमुपमेयं यथोत्तरम् ॥ ६ ॥
सा भिन्नेनाप्य भन्नेन धर्मेण रसनोपमा ।
साधोर्धीवत्तता विद्या विद्यावद्दोषहृत् क्रिया ॥ ७॥
क्रियावत्प्रीतिकृद्वाणी वाणीवत्कीत्तिरज्ज्वला
यस्यासीद्विमलं शास्त्रवद्वित्तं वित्तवन्मनः ॥ ८ ॥
 
मनोवद्दानं दानवद्यशो विश्वत्रयोमुदे ।
परिकल्प्योपमेयं तु स्वेच्छया सविशेषणम् ॥ ६॥
सदृशस्योपमानस्य कल्पने कल्पितोपमा ।
उपकष्टस्यवक्षोजयुग्ममस्या मुखं बभौ ॥ १० ॥