This page has not been fully proofread.

१३४
 
काव्यकल्पलतावृत्तिः
 
पावगूढे चतुर्थपादवर्णाः पादत्रये क्षेप्याः ॥ ७ ॥
 
यथा-
त्वं दोर्बलादरौ देव सोद्रेकदरणकुकृत् ।
त्वद्यशोऽरं मुदं दत्ते'. ....॥ १०६ ॥
 
अत्र पादत्रये चतुर्थः पादो गुप्तः । "कुमुदोदरसोदरम्" । द्वाबिघाटको-
ष्टकेषु श्लोककरणविधिः ।
 
i
 
प्राक्कोष्टकेषु न श्लोकाः पूरणीया विचक्षणैः ।
 
केवलं प्रश्नवेलायां पावः कार्यो मवो नवः ॥ ८ ॥
 
॥ इति श्रीजिनदत्त सूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचितायां
 
काव्यकल्पलतावृत्ती श्लेषसिद्धिप्रताने तृतीये
 
चित्रस्तबकः पञ्चमः सम्पूर्णः ॥ ५ ॥
 
॥ सम्पूर्णश्च श्लेषसिद्धिप्रतानस्तृतीयः ॥ ३ ॥
 
MARA
 
त्वद्यशोऽरमिति पाठान्तरम् ।