2023-04-09 14:29:49 by ambuda-bot
This page has not been fully proofread.
काव्यकल्पलतावृतिः
एवं बहुचित्रोत्पत्तिश्च एवं मुरजधनुर्बन्धादयः । क्रमांच्चतुर्विधं च्युतम्,
यथा मात्राहीनीकृतेषु वर्णेषु येषां शब्दानामर्थो मिलति तैः शब्दैर्मात्राच्युतं
स्याद्यथा-
देशान्त रावृतान् भावान् कलातीतानपि स्फुटम् ।
केवलं ज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ १०० ॥
देशकालकेवलैः शब्दाः, यथा-
बाल चार वीर पार कोमल केकि अलीक क्रूर भार मार हार कार तारा
दार पार धार स्फार सार ताल नाल हाल हेलि कृपाण उन्माद तडाग काच
प्रवाल प्रहार भारत जाया प्रभृतयः । येषु शब्देषु अर्द्धमात्राहीनीकृतेष्वप्यर्थो
मिलति तैरेवार्द्धमात्राच्युतं भवति । यथा -
यथा-
-
मध्येसूरिसभं भूरि स्वीकृतानङ्गसङ्गमाः ।
न लभन्ते नराः शोभां भानीव रविभानुषु ॥ १०१ ॥
सङ्गमा इत्यत्र ङ्गकारो व्यञ्जनयुतं व्यञ्जनञ्चार्द्धमात्रकम् ।
ताडकाश्रित शृङ्गारा सारङ्गानचलेक्षणा ।
आलोकितापि लोकस्य मनो हरति कामिनी ॥ १०२ ॥
अत्र ताडङ्कसारङ्गेति शब्दाः, यथा -
स्यन्द मन्द मन्द्य भङ्ग सदरङ्ग सम्मद स्वज करञ्ज कबन्ध वन्दन नन्दन
सम्भ्रम संवर सङ्ग र कम्बल काञ्चन करम्भ गण्ड सम्बल जम्बीर चित् अञ्चल
करञ्जादयः । सानुस्वारवर्णेषु निरनुस्वारीकृतेष्वपि येषां शब्दानामर्थो मिलति
तैबिन्दुच्युतं स्यात्, यथा-
साहसेनाश्रिता पद्मालयेन जलदात्यये ।
अर्णवस्याभिसरणे रहो मुह्यति वाहिनी ॥ १०३ ॥
-
अत्र हंसरंह इत्यत्र बिन्दुः शब्दाः, यथा - वंश हंस दंश रंहः प्रभृतयः ।
'येषां शब्दानामेकाक्षरे लुप्तोऽप्यर्थे मितति । शब्दैरक्षरच्यूतं स्यात् ।
।
पार्वतीपतिपादाब्जसेवाहेवाकिल मानसः ।
सुदुस्तपं तपः कुर्वन् न दावो देवनीप्रदः ॥ १०४ ॥
अत्र दानव इति शब्दा: " 1
मीमांसा पिनाकि कुमार केशव कन्दर्प कलापि कपर्दी काकोल जवन जघन
१. कोष्ठाङ्कितः पाठः क्वचिन्न मिलति ।