This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
१. अलङ्कारसम्प्रदाय:, २. रीतिसम्प्रदाय:, ३. रससम्प्रदाय:, ४. ध्वनिसम्प्रदायश्च ।
एतेषां समेषां सम्प्रदायानां मौलिकग्रन्थानां निर्मातारः अस्मिन्नेव काले समुत्पन्ना
अभूवन् । तथा हि-
१०
 
१. अलङ्कारसम्प्रदायस्य प्रवर्तका:- भामहोद्भटरुद्रटाः ।
 
२. रीतिसम्प्रदायस्य प्रवर्तकौ - दण्डिवामनौ ।
 
३. रससम्प्रदायस्य प्रवर्तका:- लोल्लट शङ्कक-भट्टनायकादिकाः ।
४. ध्वनिसम्प्रदायस्य प्रवर्तक :- आचार्य आनन्दवर्द्धनः ।
 
काव्यशास्त्रस्य दृष्ट्या कालोऽयमतीव महत्त्वपूर्णो वर्त्तते । यदि भामहरुद्रटोद्भटा-
दिकाः काव्यस्य बाह्यानां तत्त्वानामुन्मीलनमकुर्वन्, दण्डिवामनादिका अन्ये आचार्या:
काव्यस्यात्मतत्त्वस्य निरूपणमकुर्वन् ।
 
३. निर्णयात्मकः कालः - कालोऽयमष्टशतकवैक्रमाब्दादारभ्य सहस्रवैक्रमाब्दं यावत्
स्वीक्रियते । अस्मिन् काले आनन्दवर्धनाचार्यस्यानन्तरं मम्मटाचार्यस्य कालं यावद् ये
आचार्या सञ्जाता:, ते सर्वे गण्यन्ते । कालस्यास्य प्रख्याता आचार्या अभूवन् ध्वन्या-
लोकलोचनस्याभिनवभारत्याश्च निर्माताभिनवगुप्तपादाचार्यः, वक्रोक्तिजीवितस्य प्रणेता
कुन्तकः, व्यक्तिविवेकस्य रचयिता ध्वनिविरोध्याचार्यो महिमभट्टः । आचार्य: कुन्तको
वक्रोक्तिसम्प्रदायस्य संस्थापक आचार्यों वर्तते । व्यक्तिववेकाभिधाने ग्रन्थे आचार्यों
महिमभट्टो ध्वनिसिद्धान्तस्यामूलचूडं खण्डनमकार्षीत् । अस्य कालस्याचार्या आसन्
उद्भटः, भोजराजः, धनिकः, धनञ्जयश्च ।
 
४. व्याख्यात्मकः कालः - अस्य कालस्य प्रसारोऽतीव व्यापको वर्त्तते । सहस्रशतक-
वैक्रमाब्दादारभ्य सार्द्धसप्तदशशतकवैक्रमाब्दं यावत् सार्द्धसप्तशतवर्षाणां महान् काल:
कालेऽस्मिन्नन्तर्भवति । अस्य कालस्याचार्याः हेमचन्द्रविश्वनाथजयदेवादिका: साहित्यस्य
सर्वाङ्गाणि समीचीनतया वर्णयामासुः प्रतिपादयामासुश्च । किन्तु रुय्यकः, अप्पयदीक्षित-
प्रभृतयः आलङ्कारिकाः केवलमलङ्काराणामेव विवेचनमकार्षुः । शारदातनयः, शिङ्ग-
भूपालः, भानुदत्तप्रभृतयो विवेचकाः सिद्धान्तस्यास्य विवेचने श्लाघनीयं प्रयत्न-
मकुर्वन् । रूपगोस्वामी दिशायामस्यां यः प्रयत्नं कृतवान् सोऽपि श्लाघनीयः । राज-
शेखर-क्षेमेन्द्र-अमरचन्द्रादिका आलङ्कारिका: कविशिक्षामाश्रित्य स्वस्वग्रन्थानां प्रणयनं
कृतवन्तः ।
 
प्रकारान्तरेणापि साहित्यशास्त्रस्य कालविभागं कर्तुं शक्यते-
१. पूर्वध्वनिः काल:-
दारभ्यानन्दवर्द्धनस्य कालं यावदिति भावः ।
 
-
 
अज्ञातकालादारभ्याष्टशतकवैक्रमाब्दं यावत् । अज्ञातकाला-
B
 
२. ध्वनिकाल : - आनन्दवर्द्धनादारभ्य मम्मटकालं यावत् । अष्टशतकवैक्रमाब्दादारभ्य
सहस्रवैक्रमाब्दं यावत् ।