This page has not been fully proofread.

T
 
(
 
११६
 
काव्यकल्पलतावृत्तिः
 
शं कल्याणे सुखे सम्प्रकृष्टार्थे सङ्गमार्थयोः ।
शोभनार्थे समार्थे ह सम्बुद्धौ पादपूरणे ॥ ६५ ॥
हा शुग्दुःखविषादेषु हि हेताववधारणे ।
विशेषे पादपूर्तौ च ही विस्मयविषादयोः ॥ ६६ ॥
दुःखाहतौ च हं रोषभाषणेऽनुनयेऽपि च ।
हुं तर्के प्रश्नेऽङ्ग पुनरर्थे सम्बोधने मुदि ॥ ६७ ॥
अतिप्रोक्तः प्रकर्षार्थे लङ्घनार्थभृशार्थयोः ।
स्तुतावसम्प्रतिक्षेपे आराद्दूरसमोपयोः ॥ ६८ ॥
 
इति स्वरूपे सान्निध्ये विवक्षानियमे मते ।
हेतौ प्रकार प्रत्यक्षप्रकाशेष्ववधारणे ॥ ६६ ॥
एवम समाप्ते स्यादुत प्रश्नवितर्कयोः ।
समुच्चये विकल्पे वा शेषः स्यात्समुच्चये ॥७० ॥
मङ्गले संशयारम्भाधिकारानन्तरेषु च ।
अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ॥ ७१ ॥
 
अनुलक्षणवीप्सेत्थंभूतभागेषु सन्निधौ ।
 
सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ ७२ ॥
नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे ।
वाक्यारम्भेऽनुनयेऽप्यामन्त्रणाऽनुज्ञयोरपि
 
॥ ७३ ॥
 
नानाविनोभयानेकार्थेष्वप्यस्तेयहर्षयोः ।
अपकृष्टे वर्जने च विपर्ययवियोगयोः ॥ ७४ ॥
 
निर्देशार्थे विकृत्यर्थे विबुधैः परिकीर्त्यते ।
अपिः सम्भावनाशङ्कागर्हणासु समुच्चये ॥ ७५ ॥
प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ।
उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः ॥ ७६ ॥
 
तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ।
दाक्षिण्याचार्यं करणदोषाख्यानात्ययेषु ॥ ७० ॥
अभिर्वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः ।
स्यादमा सन्निधानार्थे सहार्थेऽलं निवारणे ॥ ७८॥
 
1₁