2023-04-09 14:29:19 by ambuda-bot
This page has not been fully proofread.
अलङ्कारशास्त्रस्य कालविभागः
यद्यपि वैदिककालादारभ्य पाणिनेः कालपर्यन्तमपि काव्यस्य तत्त्वानां विवेचनं
तत्र तत्र समुपलभ्यते, किन्तु तत्र काव्यशास्त्रस्य स्थितिः सुस्पष्टा नासीत् । वेदः
स्वयमेव 'अमरकाव्यम्' इत्यनेन नाम्ना भुवनप्रथितः - 'देवस्य पश्य काव्यं न ममार न
जीर्यति' । अतोऽलङ्कारशास्त्रस्यापि जन्मभूमिः वेद एव । इदन्त्ववश्यं वेदवेदाङ्गेषु
केवलमलङ्कारशास्त्रस्य तत्त्वानि समुपलभ्यन्ते, न च शास्त्रीयं निरूपणं तत्राव-
लोक्यते । तदीयं शास्त्रीयं निरूपणं तु भरतमुनिसमयात् प्रारब्धं भवति । भरतमुनेः
कालः विक्रमपूर्वद्वितीयं शताब्दमारभ्य द्वितीयशताब्दं यावत् स्वीक्रियते । अत एव
विक्रमपूर्वस्माद् द्वितीयशताब्दादारभ्य अष्टादशशताब्दं यावत् काव्यशास्त्रस्य निर्माणं
सञ्जातम् । अयमेव काव्यशास्त्रसाहित्यस्य प्रसरस्य कालः स्वीकर्तुं शक्यते ।
अलङ्कारशास्त्रस्य कालस्य विभागं विद्वांसः चतुर्षु भागेषु कुर्वन्ति । तद्यथा-
१. प्रारम्भिकः कालः - अज्ञातकालाद् भामहपर्यन्तम् ।
२. रचनात्मकः कालः - भामहादारभ्य आनन्दवर्द्धनाचार्यपर्यन्तम् ।
३. निर्णयात्मकः काल - आनन्दवर्द्धनाचार्यादारभ्य मम्मटस्य कालं यावत् ।
मम्मटकालादारभ्य पण्डितराजजगन्नाथकालं यावत् ।
४. व्याख्याकाल:-
भावभूमि:
-
एतेषां चतुर्णामपि कालानां विवेचनं सङ्क्षेणात्र क्रमशः प्रस्तूयते -
१. प्राम्भिकः कालः - काव्यशास्त्रस्य कालेषु कालोऽयं सर्वप्रथमो मन्यते । अयं
काल: अज्ञातकालादारभ्य सप्तमं शताब्दं यावत् स्वीक्रियते । अस्मिन् काले द्वावेवालङ्कार-
शास्त्रस्य प्रमुखावाचार्यौ सञ्जातौ - आचार्यो भरतः, भामहश्च । भरतानन्तरं मेधाविरुद्र-
प्रभृतयः कतिपये आचार्या अजायन्त, परं न तेषां ग्रन्था उपलभ्यन्ते । तत्र भरतमुनिना
प्रणीतं नाट्यशास्त्रं काव्यशास्त्रस्य प्राचीनतमो ग्रन्थो वर्तते । ग्रन्थेऽस्मिन् आचार्यो
भरतः विस्तरेण काव्यशास्त्रस्य तत्त्वानां विवेचनमकार्षीत् ।
आचार्यभामहप्रणीतस्य ग्रन्थस्य नाम काव्यालङ्कारोऽस्ति । यद्यपि नाट्यशास्त्रं
नाट्यमेवाश्रित्य प्रवृत्तमस्ति, किन्तु काव्यालङ्कारस्तु शुद्धरूपेण काव्यस्य तत्त्वानां सम्यग्
विवेचनं प्रस्तौति । षट्त्रिंशत् सप्तत्रिंशद्वाध्यायात्मकस्य नाट्यशास्त्रस्य षोडशेऽध्याये
चतुर्णामलङ्काराणां दशगुणानां दशदोषाणां च विवेचनं समुपलभ्यते । किन्तु काव्या-
लङ्कारग्रन्थे आचार्यों भामहोऽष्टात्रिंशत्सङ्ख्याकानां स्वतन्त्राणामलङ्काराणां विवेचनं
प्रस्तौति ।
२. रचनात्मकः कालः - अयं काव्यशास्त्रस्यातीव महत्त्वपूर्णो द्वितीयः कालो
वर्तते । षट्शतकवैक्रमाब्दादारभ्य अष्टशतकवैक्रमाब्दं यावत् कालस्यास्य प्रसरो
विद्यते । अस्मिन् रचनात्मक एव काले काव्यशास्त्रस्य चतुर्णां सम्प्रदायानां मौलिक-
ग्रन्थानां निर्मितिः सञ्जाता । ते च काव्यशास्त्रस्य सम्प्रदायाः सन्ति-