This page has not been fully proofread.

i
 
तृतोयप्रताने पञ्चमः स्तबेकः
 
उकारस्त्वाश्रममात्रेऽहिर्भुजङ्ग वृत्रवप्रयोः ।
ईहोद्यमस्पृहेत्येते द्विस्व रैकाक्षरा मताः ॥ ५१ ॥
अथाऽव्ययानि कथ्यन्ते प्राग्वदेव स्वरक्रमात् ।
 
अः स्वार्थेऽप्यस्वभावेऽपि स्यादा स्मरणवाक्ययोः ॥ ५२ ॥
 
आङीषदर्थेऽभिव्याप्तो क्रियायोगेऽवधावपि ।
आ स्यादवतिस्मृत्योराः सन्तापप्रकोपयोः ॥ ५३ ॥
इः स्यात् खेदे प्रकोपोक्तावी क्रोधे दुःखभावने ।
प्रत्यक्ष सन्निधौ चापरुषोक्त्यामन्त्रणार्थंयोः ॥ ५४ ॥
उः प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु ।
विभागे बन्धने मोक्षे भावे लोभोर्ध्वकर्मणोः ॥ ५५ ॥
ऊं प्रश्नेऽङ्गीकृतौ रोषेऽप्यू प्रश्ने रोषवाचि च ।
ऋ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ ५६ ॥
आमन्त्रणाह्वानोरों प्रणवेऽङ्गीकृतावपि ।
उऊ शब्दौ तु होहीवद्धूतौ सम्बोधनेऽपि च ॥ ५७ ॥
 
कः पापीयसि कुत्सायामोषदर्थे निवारणे ।
कं सुखे वारिशिरसोः किं प्रश्ने कुत्सनेऽपि च ॥ ५८ ॥
चोऽन्योन्यार्थं समाहारान्वाचयेषु समुच्चये ।
हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ॥ ५६ ॥
 
पादपूरणेऽवधूतौ तुऽविशेषेऽवधारणे ।
समुच्चये पादपूर्ती धिक् निर्भर्त्सननिन्दयोः ॥ ६० ॥
नि स्यात् क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि
सन्निधानोपरमयोः संश्रयाश्रय राशिषु ॥ ६१ ॥ ६१ ॥
मोक्षेऽन्तभावेऽधोभावे बन्धने कौशलेऽपि च ।
नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः ॥ ६२ ॥
नजीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ।
व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ ६३ ॥
वा समुच्चय एवार्थे उपमानबिकल्पयोः ।
विशिष्टेऽतीते नानार्थं वै हेतौ पादपूरणे ॥ ६४ ॥