This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
नाशावयवयोः स्यादीतिरजन्यप्रवासयोः ।
स्यादूतिः स्यूतौ रक्षायामेतः कर्बुर आगते ॥ ३७ ॥
ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ।
तातोऽनुकम्प्ये जनकेऽन्दूः स्यान्निगडभूषयोः ।
अन्धोऽन्धकारेऽक्षिहीने स्यादाधिर्बन्धकाशयोः ॥ ३८ ॥
मनोर्तौ व्यसनेऽधिष्ठानेऽन्नं त्वसितभक्तयोः ।
इनः स्वामिनि सूर्ये स्यादुन्नं क्लिन्ने दयापरे ॥ ३६ ॥
बिम्बन्तु प्रतिबिम्बे स्यान्मण्डले बिम्बकाफले ।
आमोऽपक्वे रोगभेदरागयोः स्यादुमा पुनः ॥ ४० ॥
शिवपत्न्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।
ययुर्यज्ञहये वाहे स्यादरोष्टादशार्हति ॥ ४१ ॥
 
भवत्यरन्तु चक्राङ्गे शीघ्रशीघ्रगयोरपि ।
आरो रीरी शनिभमे आरा चर्मप्रभेदिनी ॥ ४२ ॥
 
इराऽम्भोवाक्स॒राभूषु रुरुदैत्यकुरङ्गयोः ।
 
अलिः सुरापुष्पलिहोरालन्तु हरितालके ॥ ४३ ॥
तथा निरर्थंके ज्ञेयमालिस्तु विशदाशये ।
अनर्थे सख्यामावल्ल्यां सेनावालुर्गलन्तिकाः ॥ ४४ ॥
 
आलुः कन्दे भेलुकेऽपि लोर्थी गौर्वाक् बुधाङ्गना ।
लीला केलिविलासश्च शृङ्गारभावजक्रिया ॥ ४५ ॥
 
लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ।
अविर्मेषे रवी भूमिधरे मूषककम्बले ॥ ४६
 
अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितो ।
आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥ ४७ ॥
ईश: स्वामिनि रुद्रे च स्यादीषा हलदण्डके ।
उषा स्याद्वाणदैत्येन्द्रनन्दिन्यां रजनावपि ॥ ४८ ॥
 
आगः स्यादेनोवदधे मन्तावाशीहितैषणे ।
उरगस्य च दंष्ट्रायामुषः सन्ध्याप्रभातयोः ॥ ४९ ॥
उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ।
अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५० ॥