This page has not been fully proofread.

११२
 
काव्यकल्पलतावृत्तिः
 
छः सूर्ये छेदके छन्तु निर्मंले जस्तु जेतरि ।
विगते जूर्नभोवाचि पिशाच्यां जवनेऽपि च ॥ ६ ॥
को नष्टे गायने चारुवचने घर्घरध्वनौ ।
 
टं पृथिव्यां करके च टो ध्वनौ टो महेश्वरे ॥ १० ॥
शून्ये बृहड्घनौ चन्द्रमण्डले डं शिवे ध्वनौ ।
जापे ढा निर्गुणे शब्दे ढक्कायां णस्तु निष्फले ॥ ११ ॥
ज्ञाते तस्तस्करक्रोडपुच्छ्योस्ता पुनः श्रियाम् ।
थो भीत्राणे महीधे दं पत्न्यां दा दातृदानयोः ॥ १२ ॥
छेदे बन्धे च धा गुह्यकेशे धातरि धर्मतौ ।
धूर्भारकम्पचिन्तासु नः पुनर्बंन्धबुद्धयोः ॥ १३ ॥
निस्तु नेतरि नुस्तुत्यां नौस्तयां पस्तु पातरि ।
पवने जलपाने च फो झञ्झानिलफेनयोः ॥ १४ ॥
फुस्तु फूत्कारे निष्फलभाषणे वः प्रचेतसि ।
कलशे विः खाण्डजयोभंमुडी भोऽलिशुक्रयोः ॥ १५
 
भा कान्तौ भूर्भुवि स्थाने भीभंये मः शिवे विधौ ।
चन्द्रे शिरसि मा माने श्रीमात्रोर्वारुणेऽव्ययम् ॥ १६ ॥
 
मूः पुनर्बन्धने यस्तु मातरिश्वनि यं पशौ ।
यस्तु यातरि खट्वाङ्गे याने लक्ष्म्यां च रो ध्वनौ ॥ १७ ॥
तीक्ष्णे वैश्वानरे कामे राः स्वर्णे जलदे घने ।
रोमे रुये सूर्ये ल इन्द्रे चलनेऽपि च ॥ १८ ॥
लू लवे ली पुनः श्लेषे वलये वो महेश्वरे ।
वरुणे मारुते वः स्यादौपम्ये पुनरव्ययम् ॥ १६ ॥
शं शुभेः शा सास्नायां शोः शयने शुनिशाकरे ।
षः श्रेष्ठ षः पुनर्गर्भविमोक्षे सः परोक्षके ॥ २० ॥
 
सा लक्ष्म्यां हो निपाते च हस्ते दारुणि शूलिनि ।
क्षः क्षेत्रे रक्षसोत्युक्ता माला प्राक्सूरिसम्मता ॥ २१ ॥
नाम्नामेकार्थनानार्थंकाक्षराणामियं मया ।
 
रुक् शोभाकिरणेच्छासु वाग् भारत्यां वचस्यपि ॥ २२ ॥
 
१. वचस्पतिरित्यपपाठः प्रतिभाति ।