This page has not been fully proofread.

१०८
 
काव्यकल्पलतावृत्तिः
 
भात्येष मेरुरुचिरोऽपि नमेरुशोभी
 
कृत्स्नामिलामपि वहन्नलिनाभिरामः ।
 
सव्यालवालमपि चन्दनपादपानां
 
नव्यालवालमभितो वहते समूहम् ॥ १५ ॥
 
मूर्ध्ना वहन्ति के कुम्भौ मुग्धा श्लिष्टा ब्रवीति किम् ।
क्रियते कुञ्जरास्यस्य किमु सम्बोधनं बुधैः ॥ १६ ॥
 
गजाननः ।
 
प्रद्योतनोऽम्बुजानां सवितामहसां विकर्तनस्तमसाम् ।
निखिलजगच्चक्षुरसावम्बररत्नं रविर्जयति ॥ १७ ॥
॥ इति श्रीजिनदत्त सूरिशिष्यपण्डित श्रीमदम रचन्द्रविरचितायां
काव्यकल्पलतावृत्तौ श्लेषसिद्धिप्रताने तृतीयेऽ-
द्भुतस्तबकश्चतुर्थः ॥ ४ ॥
 
अथ तृतीयप्रताने पञ्चमः स्तबकः
 
अथ चित्रप्रपञ्चः ।
 
स्पारस्व र व्यञ्जनस्थानगत्याकारनियन्त्रणा ।
च्युतगूढादि वा चित्रं च्युतं तत्र चतुर्विधम् ॥ १ ॥
मात्रार्धमात्र योबिन्दुवर्णयोश्च्यतनात्मनम् ।
'क्रियाकारकसम्बन्धपागूढं चतुविषम् ॥ २ ॥
स्वरादीनां नियन्त्रणानियमः स्वरचित्रम्, यथा ।
 
जय सकलनयकलन जय मदनमददलन ।
जय कमलकरचरण जय सभयजनशरण ॥ १ ॥
 
ह्रस्वैकस्वरम् । एवं दीर्घकस्वरद्वित्र्यादिस्वरनियमो ज्ञेयः । एकस्वरादि-
शब्दाः सुप्राप्या इति न दर्शिताः ।
 
}
 
S