This page has not been fully proofread.

1
 
इंकारौकारी
 
सदाशनैरेतः ।
 
काव्यकल्पलतावृत्तिः
 
इअङौ ।
 
सप्तम्येकवचनेन यवलोपि स्वरे श्लिष्टौ भवतः । यथा-
क्लीबवृत्तित्त्वे ई इवत् ।
 
ईकारान्ता: क्लीबविशेषणत्वेन इकारान्ताः क्रियन्ते तत इवत्सर्वस्व रैः
श्लेषः। इकारोकारेण यथा— स्वीकृतपटौ मित्रे प्रीताः । शब्दाः, यथा – अतनी
अपटी कटी वटी सदावटी तरी चरी करी चारी वारी दारी । उकारेण तनी
तनूमी भूप्रभृतयः ।
 
तद्धिया उऊ ।
 
तस्य ईकारस्य धीस्तद्धीस्तया ऊकारान्ताः क्लीबविशेषणत्वेन उकारान्ताः
क्रियन्ते तत उविधिना सर्वस्वरैः श्लेषः । उकारान्तोकारान्तौ विप्रत्ययेन वा
श्लिष्टौ । तनुतनूकण्डुकण्डूप्रभृतयः ।
 
अम्प्रयोगादनुस्वारः ।
 
द्वितीयैकवचनेनाऽनुस्वारश्लेषो यथा – अधिकम्बलं वहन् रुचिराङ्गणश्रियं
बित् पुरो गाङ्गेयश्रियं दधत् ।
 
विसर्गश्रीसमैः पुरः ॥ ११ ॥
 
श्रीस्थितिप्रायैः पदैः पुरःस्थैविसर्गश्लेषो यथा - परागश्रीमह स्थितिः ।
स्यादित्यादिविभक्तिश्लेषो भाषा श्लेष: प्रकृतिश्लेषोऽपि भङ्गश्लेषोपायेन
साध्यः । विभक्तिश्लेषो यथा - भवतिपक्षे भवति रोहितः । पक्षे भवेन
तिरोहितः । स्यादिपक्षे विभक्तीनामलोपः समासेन लोपो वा क्रियते । भवतः ।
स्यादिपक्षे तवशिवतो वा । एवं सर्वत्र ज्ञेयम् । भवन्तिरोहिताः । भवसिततश्रीः ।
भवामिततश्रीः । भवावस्थित्या । राजतिरोहितेत्यादयः । भाषाश्लेषादयः,
यथा- किम्पि केवलं पुरवश्वन कलियाना नाधो कधम् अर्थेक्येन भाषाश्लेषे
समसंस्कृतप्राकृतादिशब्दा: प्राकृतलक्षणेन ज्ञेयाः । यथा सुरभवहरिणनरकुले
त्यादयः । प्रकृतिश्लेषः महःस्थित्यादयः । एवमष्टविधोऽपि श्लेषः प्रश्चितः ।
श्लेषभेदो यथा -
 
१. दचिमिति पाठान्तरम् ।
 

 
a