2023-04-09 14:29:19 by ambuda-bot
This page has not been fully proofread.
काव्यकल्पलतावृत्तिः
अन्यत्रापि तेनैव साहित्यशब्दस्याभिप्रायमभिव्यञ्जयता प्रोक्तम्-
साहित्यमनयोः शोभाशालितां प्रति काप्यसौ ।
अन्यूनमतिरिक्तत्वमनोहारिण्यवस्थितिः ।॥
अपि च राजशेखरेण 'पञ्चमी साहित्यविद्येति यायावरीयः' अन्यदपि 'शब्दार्थयो-
र्यथावत्सहभावेन विद्या साहित्यविद्या' इति काव्यमीमांसायामुक्तम् । साहित्यदर्पणादिक-
काव्यलक्षणस्वरूपादिबोधकलक्षणग्रन्थानां नामकरणमपि विद्यान्तरव्यावृत्तकाव्यमात्र-
वाचकस्य साहित्यशब्दस्य प्रयोगं प्रमाणयति । तदित्थं साहित्यशब्दोऽत्र काव्यमात्रपरक
इत्यवबोध्यम् ।
साहित्यविद्या
काव्यमीमांसानामकस्य ग्रन्थस्य प्रणेताऽऽचार्यो राजशेखरः काव्यशास्त्रं साहित्य-
विद्याशब्देनाभिहितवान् । तथा चोक्तं तेन काव्यमीमांसायाम्- 'पञ्चमी साहित्यविद्येति
यायावरीयः' इति ।
क्रियाकल्पः
उपर्युक्तानि सर्वाणि नामानि काव्यशास्त्रस्य तत्र यद्यपि संस्कृतसाहित्ये समुप-
लभ्यन्ते, किन्तु एतेभ्यः सर्वेभ्यः प्राचीनं नामास्ति क्रियाकल्प इति । अस्य निर्देशो
वात्स्यायनस्य कामशास्त्रे परिगणितासु चतुष्षष्टिकलासु समुपलभ्यते । काव्यक्रिया -
कल्पस्य सङ्क्षिप्तं नामाभाति इदम् । वाल्मीकीयरामायणस्योत्तरकाण्डस्य चतुर्नवतितमे
सर्गेऽपि क्रियाकल्पशब्दस्य काव्यवित्पदस्य च प्रयोगः समुपलभ्यते, तद्यथा-
क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ।
तत्र काव्यवित्पदस्यार्थो भवति काव्यरसग्रहणचतुरः पुरुषः । किन्तु क्रियाकल्प -
शब्दस्यार्थोऽस्ति काव्यसौन्दर्यपरीक्षणसमर्थः पुरुषः । प्रस्तुतसमीक्ष्यग्रन्थस्य नामापि
क्रियाकल्पशब्देनैव लतात्वमारोप्य काव्यकल्पलतावृत्तिरिति अभिहितम् । क्रियाकल्प
इति काव्यकरणविधिः काव्यालङ्कार इत्यर्थः मिलति ललितविस्तरस्य जयमङ्गला-
टीकायाम् ।
अनेन प्रकारेण काव्यशास्त्रस्य नामरूपेण निम्नाङ्किताः षट् शब्दा: समुप-
लभ्यन्ते-काव्यालङ्कारः, अलङ्कारशास्त्रम्, काव्यशास्त्रम्, साहित्यशास्त्रम्, साहित्य-
विद्या, क्रियाकल्पश्च ।
१. वक्रोक्ति०, १.१७ ।
..
२. वा० रा० ७.९४.७ ।