This page has not been fully proofread.

183
 
०४
 
काव्यकल्पलतावृत्तिः
 
भए डो-
अकारैकारौ सप्तम्येकवचनेन श्लिष्टौ भवतः । एकारान्तशब्दानामबाहु-
ल्यादकारसहितपूर्वाक्षरशब्दा अर्थ मिलति ग्राह्याः । यथा अधिकेवलसंस्थितिः ।
परहेरम्बसल्लक्ष्मीः । अकारान्तपक्षे सप्तमी शब्दाः, यथा – भेक केवली केलि
केतु केश केदार केसर क्रमेलकादयः ।
 
दृष्टरेफेण भिसा गौणतया अए ॥ ९ ॥
 
अकारैकारी तृतोयाबहुवचनेन पुरःस्थसमासरेफादिशब्दैः श्लिष्टौ भवतः ।
यथा सदासन्नरैरम्यः । ऐकारान्तानामप्यबाहुल्यादैकारसहितपूर्वाक्षराणामैकारा-
ग्रस्थरेफाणां शब्दानामर्थे मिलति ग्रहणम् । यथा कैरवभैरवादयः । सिदृष्टघोष-
वदाद्यैनं सन्धिः । संहिताया अभावेन विरामविवक्षणाद्विसर्ग एव ।
 
अऊ-
अकारोकारी
 
प्रथमैकवचनाग्रस्थघोषवत्पूर्वाक्षरवर्यादिशब्दैः श्लिष्टी भवतः ।
यथा-नगोवर्यश्रीः । अकारान्तपक्षे सिः । उकारान्तानामप्यवाहुल्यादोकारसहित-
पूर्वाक्षराणाम् उकाराग्रे अकारघोषवद्भयां युक्तानां शब्दानां ग्रहणम् । यथा
कोरक गोलक चोलक नयोधस्थितिरित्यादौ उकाराग्रे अकार: । कोयष्टि:
कोदण्ड: कोद्रवः उच्चक्रोधवस्थितिः कोलसल्लक्ष्मी: पोगण्ड गोधन इत्यादौ
उकाराग्रे घोषवन्तः पुरोद्योतः । अधिकोपगतः इत्यादौ नसिः । पक्षद्वयेऽपि समास
उद्योताद्यैः ।
 
उलीलया अउ-
अकारान्ता उकारान्ता यदा तदा पूर्वं क्लीबविशेषणत्वेन उकारान्ताः
क्रियन्ते तत उविधिना श्लेषः । यथा अत्यासन्नोरुचिरः । स्वतुल्यः कुलस्योदयः ।
पक्षे अतिक्रान्ता आ सामस्त्येन सन्नोर्येन कुलेन तत् अत्यासन्नु, तस्य अत्यासन्नोः ।
एवं धौः । एवमन्येऽपि ।
 
गौणत्वे आ अवत् ।
 
-
 
आकारान्ताः शब्दाः पूर्वमन्यविशेषणत्वेनाकारान्ताः क्रियन्ते पश्चादकार-
विधिना सर्वस्वरैः श्लेष: । इकारेण यथा – पुरे प्रचुरशाले रम्यता शरत्केदारस्येव ।
शालापक्षे सप्तमी । शालिपक्षे पञ्चमी षष्ठी वा । शब्दा यथा - शाला सन्धा
विनता प्रहेला हेला बहुलाला परमहाला महाशीला मुक्ता कान्ता कलेत्यादयः ।
 
E
 
1