This page has not been fully proofread.

!
 
तृतीयप्रताने चतुर्थः स्तबकः
 
१०१
 
नपुंसकलिङ्गे एकत्व-
पीनहोनादिगानमानादयः शब्दा इकारान्ताः क्रियन्ते ।
बहुलयोः साम्यं भवति । यथा - अधिकपीनिवनानीवकुलम् । विशदहीनि बिलानीव
कुलम् । परमहासमीनिवनानीव समुद्रजलम् । तथा परमखगानि वनानीव
विप्रकुलम् । स्वच्छ्गानि बहुवर्णनागानि पुरोगानि परमध्यानि सुसम्पन्नदानि-
परमदानि बहुधानादानि मञ्जुलयानि पीन हीन मीन पाठीन शालोन अध्वनीन
ईशान प्रस्थान इत्यादि । वाजादानाभारालाहाक्षा एषां चाकारान्तादिशब्दाना-
मग्रे तृतीयैकवचनेन श्लेषः । सदालञ्चयान्वितः । सदारुजयान्वितः । पुरोग-
दयाऽन्वितः बहुधानयान्वितः । सदादेशनयाऽन्वितः । सदारम्भयान्वितः बहु-
धारयान्वितः । स्फुटमहेलयान्वितः ।
 
अथ बाहयाद्यः । बाहाशब्दो भुजवाची आकारान्तः । सत्वरक्षयान्वित
इत्यादि ।
 
सनकारान्तैः शब्दैः सिसाधितः पुंस्त्वनिर्युक्तः ।
 
अग्रे क्रियाविशेषणकृतावमुखशब्बतोऽद्भुतं भवति ॥ ६ ॥
महस्प्रमुखसान्तशब्दैः
सद्मन्प्रमुखनान्तशब्दै रग्रस्थ क्रियाविशेषणस्थवर-
बलवाहिताद्यवमुखपदयुक्त: पुल्लिङ्गे त्रिभिर्वचनै रद्भुतं भवति । यथा परमहा-
वरम् । बिलसद्मावाहितप्रसरम् । अस्यार्थो विक्यासूत्रे प्राक्सनान्तप्रस्तावात्स-
विस्तरः प्रोक्तः ।
 
दोर्घादिनान्तशब्दैः स्त्रियां द्वितोयैकवचनकृतरचनैः ।
 
अर्थे मिलति च साम्तैः षष्ठीबहुवचनतोऽद्भुतं भवति ॥ ७ ॥
दीर्घादिनान्तशब्दः स्त्रियां द्वितीयैकवचनेन साधितैरग्रतः स्थिति बिन
दित्यादि विभ्राण: षष्ठीबहुत्वेन साम्यादद्भुतं भवति । यथा मृदूनां स्थिति
सकारान्त शब्दैर्व्यञ्जनान्तैरकारान्तैश्च द्वितीयैकत्व-
बिदित्यादिशब्दास्तथा
षष्ठीबहुत्वयोः साम्यं यथा-
सरसां स्थिति वहन्, परमहसां स्थिति बिभ्राणः ।
तथा श्लेषविशेषणे पुंसि स्त्रियां च व्यञ्जनान्तानां शब्दानामग्रे जस्शस्ङसिङसां
साम्यम् ।
 
-
 
रेफनिमित्त उसोरपि साम्यं यथा- गुणभृतोय्यात् । जस्शसी मुक्ता
'क्लोबेऽपि यथा - शुभावाचोरसात् । तथा धृव भृत् दृद्रूपा ये अकारान्ता व्यञ्जना-
नताश्च शब्दास्तेषां पुरतः सेरपि साम्यं यथा - गुणभृतो स्यात् । आकारान्तपक्षे
सिः श्लेषविशेषणे स्त्रियाम् । आकारान्ताद्घोषवति निमत्ते सिजस्शसां पुंस्याका-