2023-04-09 14:29:42 by ambuda-bot
This page has not been fully proofread.
.
तृतीयप्रताने चतुर्थः स्तबंकः
न्युपसर्गशब्दपृष्ठग राजीतुल्यै विशेषणक्षिप्तैः ।
अन्ते क्रियाविशेषणसारैः काव्यं महाद्भुतं भवति ॥ ५ ॥
न्युपसर्गा: निहित निमग्न निरुद्ध इत्यादिशब्दास्तेषां पृष्ठस्थित राजिराजी,
धूलिधूली पालिपाली, इत्यादिशब्दैरन्ते निकामं नितान्तमित्यादिक्रियाविशेषण-
सारैः स्त्रीलिङ्गे प्रथमैकवचनेन पुल्लिङ्गे प्रथमाद्विवचनेन नपुंसकलिङ्गे प्रथमा-
बहुवचनेन महाद्भुतं काव्यं भवति । यथा -
छिन्नाघवल्लीनिहताङ्गजन्मभल्ली निबद्धोरुरुची निकामम् ।
श्रीत्रैशलेयस्य जिनेश्वरस्य शिवाय मूर्तिश्चरणी वचांसि ॥ ६ ॥
शब्दाः, यथा - नाभी पालो भल्ली भ्रुकुटि चत्त्वरि घुली व्रतति नीवी
जाति राजि रुचि सूचि कुटि कोटि त्रोटि वल्ली मञ्जरी वल्लरो भेरी गोणी
चुल्ली उपधि झल्लरी प्रतोलो कदली कटि श्रेणि आवलि आलि, सर्वेऽपि
इकारान्ता ईकारान्ताश्च । एवमन्येऽप्यूह्याः ।
एषामग्रे प्रयोज्याः शब्दाः, यथा -
निहित निबद्ध नितान्त निकुञ्ज निचित निरुद्ध निमग्न निश्चित निशित
निवासित नियुत नियोग इत्यादि । अदुरितराजीनि दलित कर्मश्रेणीनिरुद्धराग-
भरम् । मूर्तिक्रमौ वचांसि च जिनस्य लोके सुखं गाताम् । स्फुरितसुभाषित-
पालीनिहतप्रत्यूहसंशयं ब्राह्मया । मूर्तिक्रमौ महांसि प्रभवतमुदितं वरं दातुम् ।
एकत्वे प्रभवेति क्रियासमभिहारो द्वित्वबहुत्वयोः । पक्षे कर्तृपदसम्बोधनम् ।
रुचिराव सुप्रभाव दाव पाव विभाव हाव मञ्जुलावेत्यादीनां वान्तानामग्रे अनि
बद्धाद्यैः शब्दैर्महाद्भुतं काव्यं भवति ।
सुप्रभावानिबद्धोद्यत्पुण्यभावानियोगतः ।
मूर्तिक्रमौ वचांसि श्रीजिनेन्दोर्जनतुष्टये ॥ ७॥
अग्न्यन्तानामग्रे । ईरण उरसिकोऽपि उरूपभोगेत्यादिशब्दैर्महाद्भुतं काव्यं
भवति । यथा -
वदनं पादौ वाचस्तव जिन सुरुचीरणाय दुरितानाम् ।
विमलतनू रसिकोऽपि स्मरति मृदू रूपभोगार्थम् ॥ ८ ॥
घटमानैरप्रस्थरेफादिशब्दैर्महाद्भुतं
अग्न्युपधसान्तैरग्न्यन्तैश्चार्थद्वयेऽपि