2023-04-09 14:29:42 by ambuda-bot
This page has not been fully proofread.
.
तृतीयप्रताने चतुर्थः स्तबकः
अङ्घ्रयोविशेषणे पुल्लिङ्गेऽसिः । वः श्रियः इति कर्मविशेषणे स्त्रोलिङ्गे शस् ।
तमस्तोमभिदाचारू रविचन्द्राविवाङ्गिनाम् ।
स्वतुल्यो जिनवाक्पूरस्तनुतां सुखसम्पदम् ॥ ३ ॥
'स्मरपुष्कररोचिष्णू राजन्यकृतशेखरः ।
कृपाणस्तव हस्तौ च कीर्ति वितनुतां श्रियः ॥ ४ ॥
एवमन्येऽप्येतत्प्रतिबद्धाः शब्दा लिख्यन्ते । शुचिस्थिति रुचिमञ्जु साधु-
वल्गु चारुपटु इत्याद्या अग्न्यन्ता रेफादयः । रवि रश्मि रक्षा रक्षः रसा रजः रहः
रज्जु रस रत रमणीय रचित रहित रिपु रिक्त रुचि रुजा रुचिर रोचित रेखा
रव राजीव राजा रोम रूप राग रामा राजी रव रीति रूप रथी रेवा
रोग राम ।
विषयाः सनान्तस्वरतिस्वरतृप्रत्ययान्तलीलाभिः ।
धातुचतुर्थ्येकवचः पुरस्चनमलैताद्भुतं भवति ॥ ४ ॥
ये शब्दा उकारान्ता इकारान्ताः प्रथमाबहुवचने वान्ता यान्ताः सन्तोऽर्थे
मिलन्ति तैः शब्दैः रेकत्व बहुत्वयोः साम्यम् । उकारान्ताः शब्दाः, यथा - तरु कुरु
भीरु विभु प्रभु इत्यादिकाः शुचि रुचि राजि नाभि सुरभि इत्यादि, एते जसि
निष्पन्नाः । यथा शोभितरवो वनप्रदेशा इब गायन: । एवं शब्दाः । सदारङ्गुरवः ।
अधिकविभवः । विप्रभवः । लोलपशवः । सदालञ्चारवः । बहुरुचिरसाधवः ।
अधिकदम्बः । अथ इकारान्ताः शब्दा: – अनेकपशुचयो भूपाला इव देशः ।
लोभितरुचयः । उच्चक्रोधराजयः । ज्ञातवेदनाभयः । सदासुरभय: । परमति-
मयः । अधिभूमयः । परमखनयः । अयोनयः । अधिभूरयः । भोगिरयः । स्वच्छ-
त्रपालयः । तारकलयः । शुभकेशवलयः । तारकेलयः । इत्यादि शब्दा ऊह्याः ।
सनान्ता इति ।
P
ये शब्दा: सान्ता नान्ताश्च त एव सनहीना अकारान्ता अर्थ मिलन्ति
तेषामग्रे प्रथमैकवचनेन एकत्व बहुत्वयोः साम्यम् । यथा – महसप्रभृतिका:
सान्ताः, सद्मन्प्रभृतिका: नान्ताः शब्दाः । सहोनो महशब्दः । नहीनः सद्मशब्दः ।
सती मा लक्ष्मीर्यस्य स सल्लक्ष्मीवाचकशब्दाः । परमहारविरिव सत्पुरुषाः ।
परमशरा देश इव धनुर्धराः । बहुतराः निबिडतमाः । पुरोगमा: । बिलसदनाः ।
बहुधावदनाः । पुरोगच्छदना: । कृतकदना: । बहुश्रीमदनाः । बहुस्वस्थानाः ।
कृतबहुधानाः । परमध्वानाः । रम्यानेकपानाः । विशदध्वनदनाः । परमानाः ।
.
१. स्मेरेति पाठान्तरम् ।
का०-१२