2023-04-09 14:29:19 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
इति भावव्युत्पन्नो दोषापगमगुणालङ्कारसंवलनकृतसौन्दर्यपरः,
तत्प्रतिपादकत्वादेवास्या-
लङ्कारनाम्ना व्यपदेश इति । अत्र मानन्तु वामनस्य सूत्राणि - 'काव्यं ग्राह्यमलङ्कारात्
'सौन्दर्यमलङ्कार:'२ 'सदोषगुणालङ्कारहानोपादानाभ्याम्' इत्यादीनि ।
३
काव्यशास्त्रम्
काव्यस्य सर्वेषामुपकरणानां तत्त्वानां शासनं शास्त्रीयविवेचनमस्मिन् शास्त्रे प्राधान्येन
भवति, तेन काव्यशास्त्रमिति व्यपदिश्यते । एकादशशताब्दस्य सरस्वतीकण्ठाभरणकारो
भोजदेवोऽस्मै शास्त्राय मुख्यरूपेण काव्यशास्त्रस्य प्रयोगं कृतवान् ; किन्तु शास्त्रशब्दस्य
व्युत्पत्तिमयं विधिप्रतिषेधपरामाह । तथा चोक्तं तेन-
यद्विधौ च निषेधे च व्युत्पत्तिरेव कारणम् ।
तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते
(स० क० २/१३८)
तयोर्विधिप्रतिषेधयोः साधनानि त्रीणि सन्ति काव्यम्, शास्त्रम्, इतिहासश्च ।
एतेषां त्रयाणां मिश्रणेन त्रीण्यपराण्यपि जायन्ते साधनानि - काव्यशास्त्रम्, काव्येतिहासः,
शास्त्रेतिहासश्च । इत्थमाहत्य भवन्ति षट् साधनानि विधिप्रतिषेधबोधकानि । तथा चोक्तं
भोजदेवेन सरस्वतीकण्ठाभरणे-
-
काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च ।
काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् ॥
अत एव भोजदेवः काव्यशास्त्रस्य प्रमुखं प्रयोजनं कान्तासम्मिततयोपदेश एव
मन्यते ।
साहित्यशास्त्रम्
यद्यपि साहित्यशब्दो वाङ्मयार्थे प्रयुज्यते,तथापि काव्यस्वरूपमर्थः सङ्कोचकृतो
वेद्यः । सहितयोर्भावः साहित्यम्, तच्च साहित्यं शब्दार्थयोः क्वचिदन्यत्र शास्त्रे न
भवति, किन्तु काव्यशास्त्र एव । तत्र हि शब्दोऽर्थश्च इत्युभयं मिलितं सदेव कमपि
आह्लादं जनयति । वक्रोक्तिजीवितकारेणोक्तम्-
शब्दार्थो सहितौ वक्रकविव्यापारशालिनी ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणी ॥
१. का० सू० - १.१.१ ।
४. स० क० २.१३८ ।
१
२. तदेव १.१.२ ।
५. तदेव, २.१३९ ।
३. तदेव १.१.३ ।
६. वक्रो० १.७ ।