2023-04-09 14:29:41 by ambuda-bot
This page has not been fully proofread.
1
काव्यकल्पलतावृत्तिः
दृते देहे । चञ्चलत्वेनादृते । पक्षे ऋते विना । चञ्चलत्वात् । एवं गुणशब्दानां
भावार्थत्व प्रत्यथान्तानां पञ्चम्येकवचनान्तानां पुरतो ऋतेशब्दः प्रयोज्यः । तदने
अकारान्तो देहादिशब्द: सप्तम्येकवचनान्तो विशेष्यरूपः कार्य: । वहन्नाहित -
कृष्णताम् । आहिता या कृष्णता तां वहनु । ह्रस्वोपधत्वान्नद्वयम् । पक्षे न वहन् ।
एवं ह्रस्वोपधशत्रन्तशब्देभ्यः पुरस्थाहितशब्दानामग्रे भावप्रत्ययान्तगुणशब्दा
द्वितीयैकवचनान्ताः प्रयोज्याः । रक्तत्वात्पदुनो भाति । रक्तत्वस्य विशेषणं पटुन
इति । पक्षे पटु इति क्रियाविशेषणं नो निषेधार्थ: । एवं त्वप्रत्ययान्तात्पश्वम्येक-
वचनान्ताच्च गुणशब्दात्पटुनो बाढं पटुनो भृशं पटुनः स्फुटं पटुनो राजते इत्यादि-
शब्दाः प्रयोज्याः ।
.
स्पन्दन वाहनवा सनदर्शनमोहन सबात ननघनाद्याः ।
पृच्छकसम्बोधनतः प्रयोजनीया बुधजनेन ॥ २३ ॥
एते एवं विधा नाता अन्येऽपि यथा स्पर्शन सूदन रदन कोपन आयतन
मदन छदन यजन बन्धन भवन घटन वर्णन सज्जन इत्यादिशब्देभ्यो नकारं
विनाऽप्यथें मिलति सम्बोधनीकृतेभ्यः पुरतो गुणशब्दाः प्रयोज्याः । यथा -
असौ विभाति वाग्देवी वासनश्वेतताऽन्वितः ।
श्वेतपक्षे नान्तं सम्बोधनम् । द्वितीयपक्षे नकारजितं सम्बोधनम् । एते
श्वेतश्यामादिशब्दा नियतविरुद्धैर्वर्णवाचका उक्ताः ।
अर्थकपक्षे नियतवर्णादिवाचकाः द्वितीयपक्षे सर्ववस्तुवाचकाः कथ्यन्ते ।
यथा श्वेतवर्णानां वाचकाः शब्दाः ।
•सोमतारभवाऽनन्तसुधामोदितशङ्करा ।
भास्वत्कान्त सोमकान्तघनसारसदाधिका ॥ ६॥
4
सोमच्छविमनोहारी । श्वेतपक्षे सोमचन्द्रस्तद्वत् । द्वितीयपक्षे सोमा
सौम्यरूपा च्छविः । इदं विशेषणं सर्ववस्तुव्यापि । भवच्छविपक्षे भवती या
च्छवि: । एवं सर्वशब्देषु ज्ञेयम् ।
अथ कृष्णवर्णशब्दाः-
विश्वरूपाच्युतानन्तश्रीधराकलभासितः ।
बहुलासिपरपुष्टः सर्वदा तिलसद्युतिः ॥ ७॥