This page has not been fully proofread.

तृतीयप्रताने तृतोयः स्तंबंकः
 

 
रक्तपक्षे हेमकन्दली विद्रुमस्तद्वत् । गैरिकशब्देन सुवर्णं धातुश्च । पद्मभूः कमल-
सम्भवा कान्तिः । पक्षे पद्मभूर्ब्रह्मा तद्वत् । हंसपादं हिङ्गुलम् । पक्षे हंसस्य
चरणः । अरुणो रक्तवर्णो रविश्च । मित्रेत्यादि । कोकवाचकशब्देभ्यः पद्मवाचक-
शब्देभ्यश्च मित्रवाचकाः शब्दाः प्रयुज्यन्ते । कोकमित्रम् । कोकस्य चक्रवाकस्य
मित्ररूपा । पक्षे कोकमित्र रविः पद्मबन्धुः । पद्मस्य बन्धुरूपा । पक्षे पद्मबन्धुः
सूर्यः । गरुडवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते । गरुडबान्धवः ।
गरुडस्य बान्धवरूपः । पक्षे गरुडबान्धवोऽरुणः । भूरिशब्दाज्जातरूपशब्दात्सुवर्ण-
शब्दाच्च कमलवाचकाः शब्दाः प्रयुज्यन्ते । भूरिपङ्कजं सुवर्णकमलम् । पक्षे भूरि
प्रचुरं पङ्कजवत् । जातरूपाऽम्बुजम् । जातरूपं सुवर्णं तस्य कमलं तद्वतु । पक्षे
उत्पन्नरूपं यदम्बुजम् । सुवर्णाम्भोजम्, स्वर्णाम्बुजम् । रक्तपक्षे शोभनवर्णं
यदम्भोजं तद्वत् । नवीनेत्यादि । तपनीयं सुवर्णम् । पक्षे तपनस्य सूर्यस्येयं श्रीः ।
धातुर्गेरिकं तद्वत् । पक्षे धातुर्ब्रह्मणः । विनतासुतौ गरुडाऽरुणौ एवमनया भङ्गयाऽ-
न्यानपि शब्दान् स्वबुद्धया परिकल्पयेत् । विभिन्नवर्णविभिन्नाकारविभिन्नक्रिया-
दीनामुद्दिष्टवस्तूनामभेदप्रतिपत्त्यर्थं शब्दाः, यथा-
परमविशदस्वदृशायोग्यान्तरहृारुच्यहार्यार्थाः ।
अपरा पिनद्धन व सन्नव्याप्तानूनकिञ्चनसमानाः ॥ २१ ॥
ननु समशुभसम्पन्ना वपुषा महसाङ्गकेन समाः ।
 
बेहे सदा प्रभृतयो विराजते वृश्यते प्रमुखाः ॥ २२ ॥
 
परमप्रभृतिशब्दानामग्रे वर्णाकारक्रियादिशब्दा यथोचित्यं प्रयोज्याः ।
यथा-परमस्थूलतायुतः । एकपक्षे परमा प्रकृष्टा स्थूलता। द्वितीयपक्षे परमति
शयेन अस्थूलता । विशदश्वेतशाली । विशता निर्मला । पक्षे विशन्ती अश्वेतता ।
स्वचलताशाली स्वकीया चलता । पक्षे सुष्ठु अचलता । एवं शुभसम्पन्नशब्दं
यावज्ज्ञेयम् । अत्र सुरुचिरश्रीमधुरशोभामधुरायाः शैब्दाः ज्ञेयाः । वपुषायाः
सकारान्ताः तृतीयैकवचनान्ता अङ्गकेनाद्या आकारान्तास्तृतीयैकवचनान्ता
देहे प्रमुखा अकारान्ताः सप्तम्येकवचनान्ताः सदा सर्वदाद्या राजते मुख्या आत्मने-
पदान्ता: क्रियाश्च । स्त्रकामादिमगुणतां स्वगुणत्वादृते तनौ । वहन्नाहितगुणतां
गुगत्वात्पटुनो भृशम् । सर्वत्र गुणशब्दो वर्णाकारादिवाची । यथा – स्व कामश्वेततां
विप्रदादिमस्थूलतां वहन् । स्वं काममत्यर्थं श्वेतताम् । पक्षे अश्वेतताम् ।
स्व कामादिमां प्रथमां स्थूलताम् । पक्षे अस्थूलतामादिम् । एवं स्मामादिशब्दयोः
पुरस्थगुणशब्दा भावार्थताप्रत्ययान्ता द्वितीयैकवचनान्ताश्च कार्याः । चञ्चलत्वा-