This page has not been fully proofread.

हंश
 
काव्यकल्पलतावृत्तिः
 
जितवाचकशब्दाः प्रयोज्या: । अजो विष्णुर्ब्रह्मा च । बभ्रुः कृष्णो, नकुलश्च ।
चन्द्रहासः खड्गः, सुवर्णप्रकाशश्च । अर्जुनशब्देन फाल्गुनस्तृणं च । वेधा विष्णु-
र्ब्रह्मा च । सन्नागरङ्गः पूर्ववत् । खद्योतः कीटमणिराकाशश्च । ध्वान्तेत्यादि ।
ध्वान्तवाचकशब्देभ्यः सर्पवाचकशब्देभ्यश्च द्वेषिवाचकशब्दाः प्रयुज्यन्ते । ध्वान्त-
द्वेषिप्रभा । ध्वान्तस्य द्वेषिणी प्रभा पक्षे ध्वान्तद्वेषी रविः । सर्पशत्रुः सर्पाणां
शत्रुरूपा पक्षे सर्परिपुर्गरुड : । कृष्णवाचकशब्दाच्चीरवाचकाः शब्दाः प्रयुज्यन्ते ।
कृष्णचीरं नीलवस्त्रम् । पक्षे विष्णोचीरं तद्वत् । एभ्यः कृष्णवाचकशब्देभ्योऽम्बर-
शब्दोंऽशुक शब्द प्रयुज्यते । नारायणाऽम्बरवरः । नारायणश्च अम्बरं च तद्वत् ।
पक्षे विष्णुवस्त्रम् । वासुदेवांऽशुकः । वासुदेवस्यांऽशुकाः किरणा: । पक्षे विष्णु-
रंशुकं वस्त्रम् । अर्कवाचक शब्देभ्यस्तार्क्ष्यशब्दः प्रयुज्यते । भानुतार्क्ष्यः । भानो-
स्तार्या अश्वाः । पक्षे भानुरर्कस्तार्क्ष्यो गरुडश्च । भीमशब्दात् कचवाचकाः
शब्दाः प्रयुज्यन्ते । भीमकेशः । भीमः पाण्डव: केशाश्च । पक्षे भीमस्य शिवस्य
केशाः । कमलाशब्दात्पद्मशब्दाच्च इनु - ईश- अधिप इति स्वरादिस्वामिशब्दाः
प्रयुज्यन्ते । यथा कमलेन: । रविविष्णुश्च । पीतेत्यादि । पीतं वस्त्रं विष्णुश्च ।
कृष्णं पत्रं दलम् । कृष्णस्य पत्रं वाहनं गरुड: । सुष्टु पर्णं गरुडश्च । मधुशत्रु-
विष्णुः । मधुनो माक्षिकस्य शत्रुरूपा । हरिद्राया उचिता रुक् । हरिद्वर्णेन रोचिता
रुक् । विद्युत्कान्तः । पक्षे विद्युत्कान्तो मेघः । प्रियजवल्लासिता ज्योतिः । पक्षे
प्रियमिष्टङ्गुडवदासितम् । सज्जासत्यादि । सज्जातरूपवदुपशोभिनी । पक्षे
जातरूपं सुवर्णं तद्वत् । सदा पिकवत्कोकिलवत्पिनद्धा । पक्षे सदापि कपिवन्मर्कट-
वन्नद्धा । हरिन्मणिंदिग्रत्नं सूर्यः । पक्षे नीलमणिः । मधुवत्पीतः । पक्षे भ्रमरीतः ।
स्वर्णवत्काञ्चनवत्कान्ति: । पक्षे सुष्ठु अर्णवः समुद्रस्तद्वत् ।
 
O
 
0
 
पीतरक्की बसुहरी सुवर्णं हेमकम्बलः । ।
गैरिकं
 
पद्मभूकान्तिहंसपादारुणैस्तथा ॥ १८ ॥
मित्राणि कोकपझेभ्यो गरुडेभ्यश्च बान्धवाः ।
कमल तथ भूरिजातरूपसुवर्णतः ॥ १९ ॥
नवीनतपनोयश्रीः सदा धातुश्रियं वहन् ।
विनतासुतलक्ष्मीबानेवमन्यानपि स्मरेत् ॥ २० ॥
 
पोतेत्यादि । वसुशब्देन रत्नवहो । हरिशब्देन रविः पिङ्गलवर्णश्च ।
सुवर्णशब्देन काश्चनं सुष्ठु वर्णं सुवर्णं कुङ्कुमम् । हेमकन्दलः सुवर्णकन्दलस्तद्वत् ।