This page has not been fully proofread.

तृतीयप्रताने तृतीयः स्तबकः
 
Et
 
सिन्दूरभूषणा गजाः । तमोवाचकशब्देभ्यस्तथाऽसिताब्जवाचकशब्देभ्यो द्विङ्-
- वाचकाः शब्दाः प्रयुज्यन्ते । तमोद्वेषिप्रभा । तमसो द्वेषिरूपा स्पर्द्धिनी प्रभा । क्षे
तमोद्वेषी रविस्तद्वत् नीलाम्भोजरिपुप्रभः । नीलाम्भोजस्य रिपुरूपा प्रभा यस्य ।
पक्षे नीलाम्भोजरिपुः सूर्यस्तद्वत् ।
 
पद्मिनोवाचकशब्देभ्यो दलवाचकाः शब्दाः प्रयुज्यन्ते । पद्मिनीदलम् ।
पद्मिनीवल्ल्या दलं तद्वत् । पक्षे पद्मिनीदलं पुष्पम् । कमलेत्यादि । कमला-
घिपपद्येशशब्दाभ्यां विष्णुरवी । सुखणामगो मेरुस्तद्वद्गाहितश्री: । पक्षे
सुरा मदिरा तद्वद्गाहितश्रीः । सूर्योत्पन्ना द्युतिः । पक्षे सूर्यसूः
रत्नानामाकरस्तद्वत् । पक्षे रत्नाकरोऽम्बुधिः । अधि कमलवत् । पक्षे अधिको
मलवत् । सदेत्यादि । असि खड्गं दूरमत्यर्थम् । पक्षे सिन्दूरम् । कालेयशब्देन
कुङ्कुमदैत्यौ ।
 
शनिस्तद्वत् ।
 
1
 
कामाऽङ्कुशा नखाः । पक्षे काममत्यर्थमशः छायानलिनवत् । कललवत् ।
पक्षे अलिनो भृङ्गस्य । स्फुटेत्यादि । स्फुटशोभनताऽऽम्रवत् । पक्षे स्फुटशोभः
नतः आम्रः सहकारः तद्वत् । विदूरमणि: वैदूर्यम् पक्षे विशेषेण दूरमत्यर्थं मणिः ।
वराहस्वामी आदिकोलः । पक्षे अहःस्वामी सूर्यः । नखानां विभा पक्षे सम्पन्ना
खवद् व्योमवद्विभा । श्लोकोत्तीर्णाः । कलभानुमितद्युतिः । श्रीवत्साद्युतिद्योती ।
कलकमलवद्वपुर्वंहन् । जेतापरमसिन्दूरं कृष्णलान्तं श्रियं वहन् ।
 
॥ १४ ॥
 
पोतश्यामौ लोहोत्तमहरिशम्भुप्रिय नागजितः ।
• अजब भ्रुचन्द्रहासार्जुनवेधोनागरङ्गखद्योताः
ध्यान्ताहिभ्यो द्विषः कृष्णाच्चीराण्येभ्योऽम्बरांऽशुके ।
ताकतः कच्चा भीमात्कमलापद्मयोरिनः ॥ १५ ॥
पीतांऽशुकः कृष्णपत्रसुपर्णमधुशत्रवः ।
हरिद्रोचितरंग्विद्युत्कान्तप्रियकुलासितौ
 
॥ १६ ॥
 
सज्जातरूपशोभिधीः सदापिकपिनद्धरुक ।
हरिम्मणिमधुपोतश्रीयुती स्वर्णवच्छविः ॥ १७ ॥
 
पीतेत्यादि । लोहोत्तमं सुवर्णम् । पक्षे लोहवदुत्तमम् । हरिशब्देन पिङ्गल-
वर्णः कृष्णवर्णश्च । शम्भुशब्देन विष्णुब्रह्माणौ । प्रियशब्देन कङ्गुः फलिनी लता
च । नागः सर्प स्तज्जयिनी प्रभा पक्षे नागजिद्गरुडः । एवं नागवाचकशब्देभ्यो