This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
कैलासस्तद्वत् । तथा विश्वे पिनाकिशब्दाद् गिरिवाचकाः शब्दाः प्रयुज्यन्ते । विश्वे
पिनाकिशैलश्रीः । श्वेतपक्षे विश्वे जगति पिनाकिशैल: कैलासस्तद्वत् । पीतपक्षे
विश्वेऽपि जगत्यपि नाकिशैली मेरुस्तद्वत् । उच्चकरित्यादि । रजतवद्रूप्यवदन्ते
श्रीः । पक्षे अजो ब्रह्मा तद्वत्तान्ता श्रीः । विधौ चन्द्रे ब्रह्मणि च । तारं रूप्यं तस्य
कूट: । पक्षे सुशोभितारकूटवद्रीतिवत् । श्रीस्वर्णं सुवर्णम् । पक्षे सुष्ठु अर्णो
जलम् । मधु इत्यादि । मधु क्षौद्रं दुग्धश्च । शङ्खः कम्बुः । पक्षे शङ्खो नागः ।
दहनवदुपलसन्ती । पक्षे दहनोपलः सूर्यकान्तस्तद्वत् । गाङ्गेयं सुवर्णम् । क्षे
गङ्गाच्छविः ।
 
रक्तश्यामौ पुष्करहरिविहुमनागरज कमलकुजाः ।
उत्पलधनञ्जयवृषाकपिप्रवालानि पङ्कजच्छाया ॥
 

 
९ ॥
 
कृष्णाद्रक्तानि गुञ्जातः प्राग्रं सिन्दूरभूषणैः ।
द्विषस्तमोसिताब्जेभ्यः पद्मिनीभ्यो दलानि च ॥ १० ॥
 
कमलाधिपपद्येशौ सुरागाहितसूर्यभूः
 
रत्नाकरवरश्रीकः
 
सदाधिकमलद्युतिः ॥ ११॥
 
सदासिन्दूरमुज्झिता कालेयत्वं वहन् रुचा ।
 
स्फुटकामाऽकशच्छायां कलयन्नलिनश्रियम् ॥ १२ ॥
 
स्फुटशोभानताम्रश्रीविंदूरमणिदीधितिः
वराहस्वामिधामश्रोः
 
सम्पन्नखविभाभरः ॥ १३ ॥
 
रक्तेत्यादि । पुष्करद्युतिसुन्दरः पुष्करशब्देन पद्माकाशौ । हरिशब्देन
रविविष्णू । विद्रुमं प्रवालं वशिष्टो द्रुमश्च । नागरङ्गश्रिया युतः । नागरङ्गो
नारिङ्गफलं तद्वत् । पक्षे नागः सर्पस्तद्वत् । रङ्गः प्रभा । कमलं सरोरुहम् । पक्षे
को यमस्तथा मलव । कुजशब्देन मङ्गलवृक्षौ । उत्पलं नीलाऽम्बुजम् । पक्षे
उत्कृष्टा पलवत् । धनञ्जयशब्देन पावकार्जुनौ । वृषाकपिशब्देन कृष्णाग्नी ।
"वृषाकपिर्वासुदेवे शिवेऽग्नौ च" । प्रवालशब्देन प्रकृष्टकेशा, विद्रुमश्च । जं
कमलं, पङ्कतो जाता च्छाया च । कृष्णेत्यादि । कृष्णशब्दाद्रत्नवाचकाः शब्दाः
प्रयुज्यन्ते । कृष्णरत्नं वैदूर्यादि। पक्षे कृष्णरत्नं कौस्तुभः । गुञ्जावाचकशब्देभ्यः
प्राग्रशब्दः प्रयुज्यते । गुञ्जाप्राग्रः । रक्तपक्षे गुञ्जावत्प्राग्रः प्रधान: कृष्णपक्षे
गुञ्जायाः प्राग्रम्, अग्रं तद्वत् । सिन्दूरवाचकशब्देभ्यः भूषणवाचकाः
शब्दाः प्रयुज्यन्ते । सिन्दूरभूषणः । सिन्दूरस्य भूषणं तद्वत् । कृष्णपक्षे