This page has not been fully proofread.

८८
 
काव्यकल्पलतावृत्तिः
 
सुहृद्रत्नानि भानुभ्यो वह्निरत्नरदांशुकैः ।
जलेभ्यो जन्मशोभाभिः सरोजकुमुबारिभिः ॥ ३ ॥
वृषाकपिप्रभाशोभी सूर्योपलसितद्युतिः ।
सोमप्रभातरङ्गश्रीः सुधातुलसितद्युतिः ॥ ४ ॥
 
चन्द्रः
 
रक्तेत्यादि । हरिवैभवभासुरः । हरिशब्देन रविचन्द्रो । शुचिशोभा-
विभूषितः । शुचिशब्देन शुभ्रवर्णो वह्निश्च । यथा – "शुचिः शुद्धे सितेऽनले ।
ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे" । इत्यनेकार्थः । पुष्करद्युति-
रोचितः । पुष्करशब्देन जलकमले । शतपत्रप्रभाशोभी । शतपत्रशब्देन हंसकमले ।
सूर्यवाचकशब्देभ्यः कान्तशब्दः प्रयुज्यते । भानुकान्तततद्युतिः रक्तपक्षे
भानुवत्कान्ता रुचिर्यस्य । श्वेतपक्षे भानुकान्तः सूर्यकान्तस्तद्वद्रुचिः ।
अब्जकान्तिमनोहारि । अब्जशब्देन चन्द्रकमले । नवहंससमद्युतिः । नवहंस-
शब्देन बालार्कंबालहंसौ । महापद्यांशुकद्युतिः । महापद्मं च नागश्च अंशुकं वस्त्रं
श्वेते । रक्तपक्षे कमलकिरणाः । अर्कंसोदरदीधितिः । अर्कशब्देन स्फटिकाऽऽदित्यौ ।
कमलच्छविभासुरः। कमलशब्देन जलपङ्कजे । कीलालच्छविभासुरः । कीलाल-
शब्देन रुधिरजले । सुहृद्रत्नानीत्यादि । भानुवाचकशब्देभ्यः सुहृवाचकशब्दाः
रक्तवाचकशब्दाश्च प्रयुज्यन्ते । रविमित्रप्रभाशोभी । श्वेतपक्षे रविमित्रं
रक्तपक्षे वेमिंत्ररूपा प्रभा । भानुरत्ननिभद्युतिः । श्वेतपक्षे भानुरत्नं सूर्यकान्तः ।
रक्तपक्षे रविर्मणिश्च । वह्निवाचकशब्देभ्यो रत्नवाचकशब्दाः प्रयुज्यन्ते ।
वह्निरत्नोपमद्युतिः । रक्तपक्षे वह्निश्च रत्नं च तद्वत् । रदवाचकशब्देभ्योऽशुक-
वाचिनः शब्दाः प्रयुज्यन्ते । रदांशुकद्युतिद्योती । श्वेतपक्षे रदाश्च अंशुकानि च
तद्वत् द्युतिः । रक्तपक्षे रदांशुकोऽधरः तद्वत् । जलवाचकशब्देभ्यो जन्मशोभा-
वाचकाः शब्दाः प्रयुज्यन्ते । युक्तो जलजशोभया । श्वेतपक्षे जलजाता शोभा ।
रक्तपक्षे जलजं कमलं तद्वत् । सरोजवाचकशब्देभ्य: कुमुदवाचकशब्देभ्यश्चारि-
वाचकशब्दाः प्रयुज्यन्ते । सरोजारिसमप्रभः । रक्तपक्षे सरोजानां अरिरूपा-
स्पद्विनी प्रभा यस्य । श्वेतपक्षे सरोजारिश्चन्द्रस्तत्समा । कुमुदारिद्युतिद्योती ।
श्वेतपक्षे कुमुदानामरिरूपा स्पर्द्धिनो द्युतिर्या तया द्योती । रक्तपक्षे कुमुदारि-
रादित्यस्तद्वत् द्युतिः । बृषेत्यादि । वृषाकपिप्रभाशोभी । वृषाकपिशब्देन शिवानलौ ।
सूर्योपलसितद्युतिः । सूर्यवदुपलसिता । पक्षे सूर्योपल: सूर्यकान्तस्तद्वत् सिताः
शुभ्राः । सोमप्रभातरङ्गश्रीः । सोमः प्रशस्योदयः प्रभातस्य रङ्गस्तद्वत् । पक्षे
सोमश्चन्द्रः तस्य प्रभातरङ्गः कान्तिवीची तद्वत् । सुधातुलसितयुतिः । सुधावदतुला
सिता शुभ्रा पक्षे सुष्ठ धातुवल्लसिता ।
 
.
 
Sabina t