This page has not been fully proofread.

#
 
I
 
तृतीयप्रताने तृतीयः स्तबकः
 
प्रयोज्यः । कृष्णकुल्यावरद्युतिः । श्वेतपक्षे कृष्णकुल्या गङ्गा तद्वत् द्युतिः । श्याम-
पक्षे कृष्णो विष्णुः कुल्यावरः समुद्रः तद्वत् द्युतिः । नीरदद्युतिभासुरः । नीरदो
मेघस्तद्वत् । पक्षे निश्चिता रदवत्, दन्तवद् द्युतिः । घनोपलसितश्री: । घनवत्
मेघवत् उपलसिता श्रीः । पक्षे घनोपलः करकस्तद्वत्सिता शुभ्रा श्रीः । सदा
हिमकरद्युतिः । हिमकरश्चन्द्रस्तद्वत् । पक्षे अहिः सर्पों मकरश्च । सिन्धुवेणिश्रियं
बहन् । सिन्धुनंदी तस्याः वेणि: प्रवाहस्तद्वत् । पक्षे सिन्धुः समुद्रो वेणिः केश-
पाशबन्धः तद्वत् । पृथुलाजसमद्युतिः । पृथुलाजवत्कान्ति: । पक्षे पृथुला अजसमा
विष्णुसमा । शङ्खकरेत्यादि । युक्तः शङ्खकरश्रिया । शङ्खस्य कराः किरणानि ।
पक्षे शङ्खकरो विष्णुः । तारकेशच्छविः । तारकेशश्चन्द्रस्तद्वत् । पक्षे तारा दीप्ता.
केशवत् छविः । सदाकाशश्रीः । सद्विद्यमाना आकाशवत् । पक्षे सदा काशवत् ।
व्योमकेशच्छविः । व्योम च केशाश्च तद्वत् । पक्षे व्योमकेशः शिवस्तद्वत् । ताल-
लक्ष्मश्रीः । तालश्च लक्ष्मश्च तद्वत् । पक्षे ताललक्ष्मा बलदेवः । नीलांऽशुकश्रीः ।
नीलानां अंशुकानां किरणानां श्रीः । पक्षे नीलांऽशुको बलदेवस्तद्वत् । अधि
केशच्छाय: । अधि सामस्त्येन केशवत् । पक्षे अधिकं ईशवत् । अरिष्टरुचिः ।
अरिष्टशब्देन तक्रकाकौ । यथा -
 
"अरिष्टो लशुने निम्बे फेनेऽल्पे कङ्ककाकयोः ।
अरिष्टं सूत्यगारे तच्चि तक्रे शुभेऽशुभे" ॥ ·
 
सदासिचयरोचिष्णु: । सिचयं वस्त्रं तद्वत् । पक्षे असिचयः खड्गश्रेणिः ।
कलकण्ठद्युतिः कलकण्ठः पिको हंसश्च । यथा -
 
"कलकण्ठः पिके पारावते हंसे कलध्वनौ " ।
 
श्लोकोत्तीर्णाः शब्दाः । वहन् कलभवच्छायाम् । सदाधिकेशवच्छायः ।
अन्धकारातिदीधितिः अनेकपायसच्छाय: । वपुर्मंहोदधिच्छायं वहन् । स्पष्टांशुक-
श्रियं वित् । धौताम्बरश्रियं श्रयन् । स्फटिकान्तश्रियं बित् । स्फटिकाचल-
सल्लक्ष्मी: स्फटी सर्पः । पुरो गजलसल्लक्ष्मीः । जलमुक्तान्तदीधितिः । जलं च
मुक्ताश्च तद्वदन्ते दीधितियंस्य । पक्षे जलमुक् मेघः तद्वत्तान्ता । अवश्यायश्रियं
वहन् । सैन्धवद्युतिविद्योती कलितो माधवश्रिया । शोभते वराहरोचितच्छाया
यम्मूतिः । वृषाकपिद्युतिद्योती । वृषाकपिशब्देन कृष्णशिवो ।
 
रक्तश्वेतौ हरिशुचिपुष्कर शतपत्रसूर्यकान्ताऽब्जाः ।
नवहं समहापद्मार्कंसोदराः कमलकीलाले ॥ २ ॥