This page has not been fully proofread.

कार्व्यकल्पलतावृत्तिः
 
श्वेतश्यामावित्यादि । विधुवैभवभासुरः । विधुश्चन्द्र विष्णुश्च । हरि-
हारित रद्युतिः हरिशब्देन चन्द्र विष्णु । तारास्फारतरद्युतिः । ताराशब्देन तारका
नयनकनीनिका च । घनसाररुचिस्फारः । कृष्णपक्षे घना मेघास्तद्वत्साररुचिः ।
श्वेतपक्षे घनसारशब्दः कर्पूरवाची । शम्भुशोभामनोहरः । शम्भुशब्देन हरिहरी ।
नागेन्द्ररुचिरच्छायः । नागेन्द्रशब्देन शेषो हस्तीन्द्रश्च । अध्रप्रभामनोहारी ।
अभ्रशब्देन मेघाऽभ्र कन्च । अश्मगर्भसगर्भाशुः । अश्मगर्भशब्देन मरकतं पाषाण-
गर्भश्च । सदारामाऽभिरामश्रीः । रामशब्देन दाशरथिर्बलदेवश्च । अनन्तरुचि-
रोचिष्णुः । अनन्तशब्देन विष्णुर्बलदेवश्च । अर्जुनच्छविपेशल: । अर्जुनशब्देन
पार्थो धवलवर्णश्च । चन्द्रहासप्रकाशश्रीः । चन्द्रहासशब्देन खड्गः, चन्द्रस्य हासः
प्रकाशश्च । सिंहाजरुचिराचितः । सिंहोजशब्देन राहुः सिंहश्च । हरेजिष्णो-
रित्यादि । हरिशब्दाज्जिष्णुशब्दात्, घनवाचकशब्दभ्योऽब्धिवाचकशब्देभ्यश्च
गजवाचकाः शब्दाः प्रयुज्यन्ते । यथा -
 

 
८६
 
हरिकुम्भिनिभज्योतिर्जिष्णुहस्तिनिभप्रभः ।
मेघदन्तावलच्छायः समुद्रद्विरदद्युतिः ॥ ५ ॥
 
कृष्णवर्णपक्षे हरिजिष्णुशब्दो विष्णुवाचकौ । हरिश्च कुम्भी च जिष्णुश्च
हस्ती च तद्वद्र्द्युतिः । श्वेतवणपक्षं हरिजिष्णुशब्दाविन्द्रवाचकौ । ततो हरेः कुम्भो
जिष्णोईस्ता ऐरावणस्तद्वद्युतिः ।
 
तथा कृष्णवर्णपक्षे मेघाश्च दन्तावलाश्च समुद्राश्च द्विरदाश्च तद्वत्
द्युतिः । श्वेतपक्षं मेघहस्ता, समुद्रहस्ती ऐरावणस्तद्वत् द्युतिः । तथा ।
मुरारिवाचकशब्देभ्यः सिन्धुशब्दः प्रयुज्यते । विष्णुसिन्धुसमप्रभः । कृष्णपक्षे
 
मुरारिश्च सिन्धुश्च तद्वत् द्युतिः । श्वेतपक्षे मुरारि: सिन्धुर्नदी गङ्गा तद्वत् द्युतिः
तथा जलवाचकशब्देभ्यो वाहशब्दः प्रयुज्यते । जलवाहसमप्रभः । कृष्णपक्षे
जलवाहो मेघस्तद्वत् द्युतिः । श्वेतपक्षे जलवाहस्तद्वद्द्युतिः । कृष्णशब्दादम्बुज-
वाचिन: शब्दाः प्रयुज्यन्ते ।
 
कृष्णाऽम्भोजसमप्रभः । कृष्णपक्षे कृष्णाऽम्भोजं नीलोत्पलम् । श्वेतपक्षे
कृष्णस्य हरेः, अम्भोजं नाभिपुण्डरीकं तद्वद् द्युतिः । यमुनावाचकशब्देभ्यस्तथा
कुम्भिवाचकशब्देभ्यो द्वेषिवाचिन: शब्दाः प्रयुज्यन्ते । यमुनारिसमप्रभः । कुम्भि-
द्वेषिरुचिः सदा । कृष्णपक्षे यमुनाया अभिरूपा स्पर्द्धिनी रुचिर्यस्य, कुम्भिनां
द्वेषिणी रुचिर्यस्य । श्वेतपक्षे यमुनारिर्बलदेवः, कुम्भिद्वेषी सिंहस्तद्वत् द्युतिः ।
कृष्णार्येत्यादि । कृष्णवाचकशब्दः पुरःस्थितनदोवाचकशब्देभ्यो वरशब्दः