This page has not been fully proofread.


 
काव्यकल्पलतावृत्तिः
 
एवम्- 'अग्निर्विश्वानि काव्यानि विद्वान्' (ऋ० ३/१/१८) "आदेवानामभवः केतुरग्ने
मन्द्रोविश्वानि काव्यानि विद्वान्" (ऋ०३/१/१७) एवम्-'तं गाथया पुराण्या पुनानभ्य-
नूषत' (ऋ०१०/६/४३) अनेन साहित्यशास्त्रस्य जन्मदात्री श्रुतिमातैव सिद्ध्यति ।
वेदवेदाङ्गादिषु केवलं साहित्यशास्त्रस्य तत्त्वानि समुपलभ्यन्ते, न च तानि शास्त्राणि
तत्र प्रत्यक्षतयाऽप्रत्यक्षतया वा तस्य शास्त्रीयं निरूपणं कुर्वाणानि दृष्टानि जायन्ते ।
तदीयं शास्त्रीयं निरूपणं तु भरतमुनिसमयात् प्रारब्धं भवति ।
काव्यशास्त्राभिधानान्तराणि
 
स्वजन्मकालत एव शास्त्रमिदं नितरां लोकप्रियतामभजत् । तस्मादेतत् काव्यालङ्कार-
काव्यशास्त्र-क्रियाकल्प - साहित्यविद्या-अलङ्कारशास्त्र - साहित्यशास्त्रादिकतिपयनामभिः
ससम्मानं सानुरागञ्च समाहूतमभूत् ।
 
काव्यालङ्कारः
 
काव्यशास्त्रस्य प्राचीनतमं नाम काव्यालङ्कार एवास्ति । काव्यशास्त्रस्यादिमे
काले एतस्मै काव्यालङ्कारशब्दस्य प्रयोगो क्रियते स्म । एतस्मादेव कारणात् काव्य-
शास्त्रस्यादियुगस्य सर्वे आचार्याः स्वग्रन्थानां नामानि काव्यालङ्कार इत्यकार्षुः । अलङ्कार-
शास्त्रस्य प्रख्यात आचार्यो भामहः स्वग्रन्थस्य नाम काव्यालङ्कार इत्यकार्षीत् । रुद्रटोऽपि
स्वकाव्यशास्त्रविवेचनात्मकस्य ग्रन्थस्य नाम काव्यलङ्कारसारसङ्ग्रह इत्यकरोत् । रुद्रटस्यापि
काव्यशास्त्रविषयकस्य ग्रन्थस्य नाम काव्यलङ्कार एवास्ति ।
 
काव्यालङ्काराभिधानस्यालङ्कारशब्दः सौन्दर्यस्य बोधको वर्तते । अत एव काव्या-
लङ्कारसूत्रनामके ग्रन्थे वामनेनोक्तम्-'सौन्दर्यमलङ्कारः'' इति । अन्यैरप्याचार्यैः काव्यस्य
सौन्दर्याधायकं तत्त्वमलङ्कारशब्देन प्रतिपादितम् । उक्तञ्चापि दण्डिना- 'काव्यशोभाकरान्
धर्मानलङ्कारान् प्रचक्षते' इति । इत्थं काव्यालङ्कारशब्दः काव्यसौन्दर्यस्य बोध-
कोऽस्ति । लक्षणया च काव्यसौन्दर्यपरं शास्त्रमभिधीयते । अत एव काव्यसौन्दर्यस्य
परीक्षणमेतेषामेव ग्रन्थानामाधारेण क्रियते । एतेषु मौलिकग्रन्थेषु दोषगुणालङ्कारादीनां
तत्त्वानां सन्निवेशो भवति ।
 
अलङ्कारशास्त्रम्
 
परवर्तिन आचार्याः काव्यशास्त्रस्यार्थेऽलङ्कारशास्त्रशब्दस्य प्रयोगमकार्षुः । प्रताप-
रुद्रीयस्य टीकायामस्य मतस्य समर्थनाय छत्रिन्यायस्याश्रयणं कृतं भवति । तेन
लिखितम्-'यद्यपि रसालङ्काराद्यनेकविषयप्रतिपादकमिदं शास्त्रम्, तथापि छत्रिन्यायेना-
लङ्कारशास्त्रमित्युच्यते' इदं तु मतं प्रतापरुद्रीयकारस्यास्ति । अलङ्क्रियतेऽनेनेति
करणव्युत्पत्तिनिष्पन्नो यमकोपमादिबोधको नायमलङ्कारशब्दः, किन्तु 'अलङ्कृतिरलङ्कारः '
 
१. काव्यालङ्कारसूत्रे - १.१.२ । २. काव्यादर्शे, २.१ ।