This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
स्थितिम्, कैलासवत् । विश्वेक्षणस्थिति बिभ्रत्, हरिवत् । नेत्राभोगभासुरः,
धनिवत् । नयनोदितवैभवः, मुनिवत् । स्पष्टां बकस्थिति वहनु, सरोवरवत् ।
सदा लोचनभासुरः मन्त्रिवत् । उल्लोचनमितद्युतिः, गृहवत् । सुदर्शनमनोरमः,
विष्णुवत् । सुतारास्थितिपेशल:, चन्द्रवत् । कलयन् नासिकास्थितिम्, पान्थवत् ।
नक्रस्थितिमनोरमः, समुद्रवत् । सदाधरमनोरमः, पृथ्वीवत् । गण्डस्थितिमनोहारी,
वनवत् । हनुमद्वैभवाऽन्वितः, रामवत् । कूर्चकस्थितिपेशलः, चित्रवत् । उच्चै-
रदनभासुरो बालवत् । असौ सुदर्शनस्थिति वित्, सुभोजिवत् । राजदन्त स्थिति
बिभ्रत्, राजदारवत् । रसनाभोगभासुरः, नारोनितम्बवत् । घण्टिकास्थिति-
पेशल: गजवत् । अधिकन्धरयान्वितः नृपवत् । सुग्रीवोदितवैभवः, रामबत् ।
स्कन्धस्थितिमनोहारी, ऋणिवत् । गलच्छायामनोहारी, कृष्णपक्षचन्द्रवत् ।
अधिकण्ठमनोरमः, मन्त्रवत् । विभुजातिमनोहरः, नृपवत् । स्फुरद्वाहोरुचि
बिभ्रत्, सैन्यनिवेशवत् । समदोजितवैभवः, कुम्भिवत् । कक्षास्थितिमनोहरः,
वादिवत् । सश्रीकफणिवैभवः, पातालवत् । नितान्तमणिबन्धवान्, रथवत् ।
करस्थितिमनोहरः, नृपवत् । सश्रोकरचितस्थितिः, धनिवत् । करभासितवैभवः,
उष्ट्रपालवत् । स्पष्टाऽङ्गुलिस्थिति वहनु, गान्धिकवत् । कामाऽङ्कुशस्थिति वहन्,
हस्तिवत् । सदाधिकरजस्थिति सैन्यवत् । नखरस्थितिभासुरः, वर्षार्कवत् ।
सुसम्पन्नखचितस्थितिः प्रासादवत् । प्रहस्तस्थितिपेशल: रावणवत् । नालिका-
स्थितिसुन्दरः, वनवत् । अवक्रोडलक्षणान्वितः, सत्पुरुषवत् । स्पष्टमुत्सङ्गपेशलः,
सकान्तस्त्रीवत् । उच्चरङ्गसमन्वितः, दुष्कालवत् । प्रौढोरसश्रियं बिभ्रत्,
घटवत् । समस्तनोदिताभोग, मुनिवत् । कुचेष्टाभोगभासुरोऽधमवत् ।
द्विपयोधरसाटोपः, नृपवत् । सदापि चण्डसंरम्भः, नृपवत् । प्रौढोदरस्थिति
बहनु, शैलवत् । नाभिभूतस्थिति वहन्, अभिमानिवत् । कटकान्तस्थिति
वहन्, नृपवत् । वहन वैकटिकाभोगम्, पुरवत् । सर्वदारोहपेशलः सुभगवत् ।
अहोसज्जघनस्थितिः, नभोवत् । सज्जानुगतवैभवः, धनिवत् ।
चण्डिकाभोगः, शम्भुवत् । अपूर्वंचरणस्थानः सुभटवत् । द्विपादरचितस्थिति,
नृपवत् । सदावलनश्रियं बिभ्रत्, भूमिवत् ।
 
"
 
.
 
सदापि
 
विषाणपुच्छसास्नाभिः शूलाच्छादनचञ्चुभिः ॥ ३ ॥
वेगभोक्रोधयुद्धश्रोभीमतादिभिरुच्यते ॥
 
,
 
तिर्यग्वर्णनाय तदङ्गोपाङ्गश्लेषशब्दाः, यथा-
शृङ्गारोपचितस्थितिः, स्त्रीवत् । सद्विषाणां श्रियं वहनु, सर्पंवत् । विश्वे-
त्रपुच्छविभ्राजः, रसितलोहवत् । उच्चं चूतश्रियं वहनु, वनवत् । त्रोटितस्थिति-
4