This page has not been fully proofread.

i
 
'I
 
तृतीयप्रताने द्वितोयः स्तबंक
 
उपकण्ठे स्थिति बिभ्रत्सनीडस्थितिपेशलः ।
सन्निधानस्थितिश्रेष्ठो विप्रकृष्ट श्रियं वहन् ॥ २७ ॥
 
अथाऽऽधेयादिशब्दाः-
कीलाभोगगुणासङ्ग चूर्णचन्द्रक सन्धयः ।
 
सदा लिपीनां लक्ष्मो लेखा रेखाक्षरवर्णकाः ॥ २८ ॥
पीवरज्वालयोद्योती मृदूदारेऽष्टकासितौ ।
दारुणस्थितिसत्काष्ठाभोगौ धर्मंसदाजिनौ ॥ २६ ॥
कृत्तिका कार्तिकेयश्रीः सुखटोकासितस्थितिः ।
समोपाधिकपरमसुहृद्भः स्यादयः स्थितिः ॥ ३० ॥
परमन्तरसाटोपं वहन् स्पष्टान्तरस्थितिम् ।
सदाविलांशुकोच्चेलो वेशावासश्रियोऽम्बरम् ॥ ३१ ॥
पीतः सदाधिकपटः सदासिचयभासुरः ।
विस्पष्टाञ्जनसल्लक्ष्मी: शोभितार्णस्थिति वहन् ॥ ३२ ॥
 
तान्तवस्थितिमुद्विभ्रन् माधुर्यगुणसंयुतः ।
लसल्लवणिमप्रौढ : स्फुरत्तोव्ररुचिस्थितिः ॥ ३३ ॥
मौलिश्रोत्रोलिक ब्रूहनुरदकरट्टक्तालुनासौष्ठवक्त्र-
स्कन्धग्रीवाभुजोरः स्तन कच नखवाङ्मध्यनाभ्यंसदेशाः ।
कक्षारोमाङ्घ्रिजङ्घावलिकटिजघनाङ्गुष्ठगुल्फा ङ्गुली स्फिग्-
गुह्यक्रोडप्रकोष्ठावटुकफणितल भ्रान्तिकान्तिप्रकाण्डाः ॥ ३४ ॥
 
८३
 
पुरुषादिवर्णनायाङ्गोपाङ्गनामश्लेषो यथा-
उच्चरङ्गमनोहरः, नाट्यवत् । साक्षादधिकविग्रहः, दैत्यवत् सुशोभित
तमुश्रियं वहन्, नृपवत् । समुल्लसितनूपुरश्रीः स्त्रोक्रमवत् । अधिकायस्थिति
बित्, शस्त्रीवत् । कुबेरस्थितिसंयुतः कैलासवत् । सुसम्पन्नवपूरम्यः, नृषवत् ।
कलेवरश्रियं बिभ्रत्, कुमारीवत् । उत्तमाङ्गस्थिति बिधत्, जैनमुनिवत् ।
अधिकेशश्रियं वहन्, मन्त्रिवत् । बहुकुन्तलसद्युतिः सुभटवत् । सदाबालमनो-
रमः, वृक्षवत् । वेणोसम्भ्रमसम्भृतः नदोवत् । सदा तुण्डलक्षणान्वितः, दातृवत् ।
पृथुलास्यमनोहरः, नर्तकीवत् । मुखरोचितवैभव, कथकवत् । बहुधावदनस्थितिः,
सैन्यवत् । आघकाननरोचिष्णुः, गिरिवत् । स्फुरत्पृथुललाटश्रीः, भृगुकच्छवत् ।
अलिकान्तिस्थिति बहन, पद्मवत् । प्रतिभालासितस्थितिः, कविवत् । उच्चैःश्रवः-
स्थिति वित्, इन्द्रवत् । अधिकर्णस्थिति बिभ्रत्, दरिद्रवत् । वहन् वैश्रवण-
"}
 
-