This page has not been fully proofread.

काव्यकल्पलतावृतिः
 
अहो गौरवसल्लक्ष्मीर्यामिनीकामिनीपतिः ।
सुपर्वपर्वतौपम्यभङ्गीमङ्गीकरोत्यसौ ॥ १ ॥
 
अहो गौरवेत्येकपदेनैव ये केऽपि श्वेतपदार्था भवन्ति ते सर्वेऽप्येवं वर्ण्यन्ते ।
वर्णादीनां सङ्ग्रहो यथा-
5०
 
सत्कोणवृत्तलघुलम्बपुराणनव्य-
वक्रान्तदूर चलनिश्चलदुःसुगन्धाः ।
सूक्ष्मोरुतीव्रपृथुसङ्कटनिस्प्रसार-
स्थानप्रभासरसनोरसवामनाः स्युः ॥ २ ॥
 
शब्देन
 
प्रभा श्वेतपीतादिको वर्णः । सत्कोणवृत्तलघुलम्बादिः, आकार: । स्थान-
स्वर्गाऽऽकाशभूपातालपर्वतनदीवनप्रभृतिक, आधार: । चलनिश्चलादिकाः,
क्रिया: । पुराण नव्य अन्तर दूर दुर्गन्ध सुगन्ध निःसार ससार सरस नीरसा-
दिभिराधेयादयः । आमीषां च वर्णादीनां नामानि पूर्वोक्तश्लेषरीत्या सश्लेषाणि
क्रियन्ते ।
 
पूर्वं श्वेतवर्णशब्दाः, यथा-
गौरी भूतकलाशाली परमश्वेततादृतिः ।
सपीवरसितोल्लासाः परशुभ्रासितादयः ॥ २ ॥
 
आदि शब्दादन्येऽपि, यथा अधिकगौरचितस्थितिः सुराष्ट्रवत् । प्रियं
गौरचिताटोपं विभ्रत्, भृङ्गवत् । पुरो गौरसाटोपश्रीस्तरुणीवत् । विश्वेतत्व-
मनोहरः, योगिवत् । स्प्रष्टां श्वेतश्रियं बिभ्रत्, भानुवत् । लोलुपश्वेतवैभव:
पशुपालवत् । एवं वर्णादिनामश्लेषशब्दाः, सदृग्गुणपदार्थश्लेषशब्दाश्च बहवः,
मत्कृतकाव्यकल्पलतापरिमले श्लेषशब्दसमुच्चयात् ज्ञेयाः ।
 
सदृग्गुणशब्दाः, यथा-
अहो चन्द्रकसल्लक्ष्मीर्घनसारश्रियं वहन् ।
सदा नवसुधाशोभी बिभ्राणो राजतश्रियम् ॥ ३ ॥
एवं सर्वत्र गुणशब्दः । सदृग्गुणशब्दाश्च श्लेषाः । इति श्वेतवर्णः ।
 
इति रक्तवर्णः ।
 
अधिकारुण्यसंशीभी स्फुरन्माञ्जिष्ठवैभवः ।
सदा विराजताम्रश्रीबहुलोहितवैभवः ॥ ४ ॥
विद्रुमप्रवरच्छायः प्रबालस्थितिपेशल: ।
अशोकश्रीमनोहारी बन्धुजीवनवद्विभाः ॥ ५ ॥