This page has not been fully proofread.

!
 
तृतीयप्रताने द्वितीयः स्तबक
 
७६.
 
क्षपण राक्षा रक्षा द्राक्षा लाक्षा आकाङ्क्षा । अग्रे क्षारक्षम क्षान्त क्षालित
पक्षि कुक्षि अक्षि माक्षि । अग्रे क्षिति अक्षि क्षीर क्षीब रक्ष अक्षः । अग्रे क्षोद
क्षोभित भिक्षु मञ्जु चक्षुः तरक्षु । अग्रे क्षप क्षुधा क्षुरप्र क्षुप पक्ष्म पक्ष्मल
राजयक्ष्म लक्ष्मी । अग्रे क्ष्मा ।
 
एवं व्यञ्जनक्रमोऽन्योऽपि ज्ञेयः ।
 
अथ स्वरादिशब्दक्रमः ।
 
अनिरुद्ध अनिल अहोरात्र अपवर्ग अमृत अवनी अशोक अतिथि अगुरु
अवट अजित अनवरत आकुल आमिष आयति आमय आखेटक आलाप आहार
आवाल आकर आलोक इन्धन दन्दु इङ्गुदी इन्दावरज ईश ईक्षण उपराग उद्धृत
उदन्त उपवन उद्गार उदार उत्ताल उदर उदधि उत्पल उत्कर उत्कल उत्तम
उद्भट उदित उत्कर्ष उपल उत्प्रास ऊन ऊर ऊह एक एकान्त ऐरावण ऐरावत
ऋतु ऋजु अङ्गज अङ्गविक्षेप अम्बर अकर अङ्कुश अङ्गुलि अम्बक अंशुक अि
अञ्जन अङ्गद अनन्तर अङ्कपाली अन्तर ।
 
॥ इति श्रीजिनदत्त सूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचितायां
काव्यकल्पलतावृत्तौ श्लेषसिद्धिप्रताने तृतीये
श्लेषव्युत्पादनं नाम प्रथमः स्तबकः ॥ १ ॥
 
अथ तृतीयप्रताने द्वितीयः स्तबकः
 
अथ सर्ववर्णनम्-
जनित श्लेषसंश्लेषैर्वर्ण्यवर्णादिनामभिः ।
उपमानकृतोल्लासैः साधयेत्सर्ववर्णनम् ॥ १ ॥
 
वर्ण्यस्य वर्णाकाराधारक्रियाधेयानि नामानि । तथा वर्ण्यादिगुणैर्वर्णसदृशानां
पदार्थानां नामानि श्लेषापितोपमानयुक्तानि कृत्वा सर्ववर्णनं कुर्वीत । तत्रैकेन
श्वेतादिशब्देन श्वेतादिपदार्थाः सर्वेऽपि वर्ण्यन्ते तत्सर्ववर्णनम् । यथा-
A