2023-04-09 14:29:18 by ambuda-bot
This page has not been fully proofread.
भावभूमि:
पञ्चमं नाट्यवेदं रचितवान् विधाता । तदेव भगवता नाट्याचार्येण भरतेन स्पष्टमुद्-
घोषितम्-
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥
यायावरेण राजशेखरेण
काव्यमीमांसायामलङ्कारशास्त्रस्य प्राचीनता
प्रमाणिता । तदनुसारेण शास्त्रमेतदुपदिष्टवान् भगवान् शङ्करो ब्रह्मणे, तदनन्तरं तस्माद्
देवादय ऋषयश्च शिक्षिताः । अष्टादशोपदेशकद्वारा चैतस्य शास्त्रस्याष्टादशाधिकरणेषु
सञ्जाता । तत्र दृश्यकाव्यस्य निरूपणं भरतेन कृतम् । नन्दिकेश्वरेण रसस्य, धिषणेन
दोषस्य, गुणस्य निरूपणं कृतमुपमन्युनेति । काव्यादर्शात्पूर्वं काश्यपवररुचिभ्या-
मलङ्कारग्रन्था निर्मिता इति तद्धृदयङ्गमानामकटीकातोऽवगम्यते । श्रुतानुपालिनीटीकाया-
मपि दण्डिनः पूर्वालङ्कारिकेषु काश्यपब्रह्मदत्तनन्दस्वामिनां नामान्युद्धृतानि विद्यन्ते ।
परन्त्वेतैर्निर्मिता ग्रन्था नेदानीमुपलभ्यन्ते प्रेक्षकाणां समक्षम् । द्वितीयशताब्दया: शिला-
लेखात् स्पष्टं ज्ञायते यदस्मिन् समयेऽलङ्कारशास्त्रस्योदयः समभूदेव । रुद्रदामन्शिलालेखे
तु भाषालङ्कारपूर्णा नास्ति, परन्त्वलङ्कारशास्त्राणां कतिपयसिद्धान्तानां निर्देशस्तत्र
विद्यत एव ।
व्याकरणशास्त्रस्य प्रवर्तकेन पाणिनिना 'पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः
'कर्मन्दकृशास्वादिनिः'' इति सूत्राभ्यां शिलालिकृशास्वद्वारा निर्मितनटसूत्रविषये निर्देशो
विहितः । एतस्मात्पूर्ववर्तिना यास्काचार्येण स्वनिरुक्ते विविधोपमानां निरूपणमध्ये
कर्मोपमाया: लक्षणं कृतम्-'यथा वासो यथा वनम्, यथा समुद्रं सृजति' (निरुक्ते,
५/७८/८) पूर्ववर्तिना गार्ग्यणापि उपमाया वैज्ञानिकं लक्षणमुपनिबद्धम्-उपमा यत्
अतत् तत्सदृशम्' इति । अलङ्कारविषये बहून्युदाहरणानि प्रदर्शितानि सन्ति निरुक्ते ।
तदित्थमलङ्कारशास्त्रस्य प्राचीनता सुप्रतीतैव ।
अलङ्कारशास्त्रस्याविर्भावः
भारतेऽलङ्कारशास्त्रस्योत्पत्तिविषयकः प्रश्नः जटिलः । अस्योत्पत्तिमधिकृत्य
काव्यमीमांसाकारो राजशेखरो यामाख्यायिकां समुपस्थापयति, तेन ज्ञायते यत् श्रीकण्ठः
परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्य उपदेशं चकार । कथनेनैतेन शास्त्रस्यास्या-
विर्भावो भगवतः शङ्कराद् बभूवेति प्रतीयते । काव्यसौन्दर्यस्याधायकानि यानि गुणरीति-
ध्वन्यलङ्कारादितत्त्वानि अलङ्कारशास्त्रं विविनक्ति, तानि सर्वाण्यपि मूलतो वेदेषु प्राप्तानि
भवन्ति । वेदः स्वयमेव 'अमरकाव्यम्' 'पश्य देवस्य काव्यं न ममार न जीर्यति' ।
१. नाट्यशास्त्रम्, १.१७ । २. पा. सू० ४.३.११० ।
३. पा. सू० ४.३.१११ ।