This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
स्फारोचितश्च फलसहितानबलसद्वरोचितवलक्षाः ।
वामोदितो विरोचितवद्धबसद्वासनाव्याप्ताः ॥ १२ ॥
विपरीतविप्रकृष्टवरचिताश्चव्राततोऽव्यवहिताः स्युः ।
विलसितविकसद्विचरद्विभ्राजिभ्रासिकासिसमाः ॥ १३ ॥
विसरविमानवितर्का विशालविभ्रमविनोदविकटाः स्युः ।
विक्रमविकल्पविस्मयवीतव्यूढव्रजव्यूहाः । १४ ॥
भासितभारोचितभानवर्द्धभीमोदित भ्रान्तिः ।
भासितभूरीकृतभावबद्धभूयोगतो भरचितश्च ॥ १५ ॥
उदितं भ्रमाद्भरोचितम हितो महसन्प्रदेशौ च ।
मधुरो मोहितमोदितमितो मता मानवद्धियतयाताः ॥ १६ ॥
 
यानाद्वद्धीरमरामोदित जितरचित रोचितारूढम् ।
रोपचितरमोहितरूपचित लसल्लासिताल वसत् ॥ १७ ॥
 
लातं लोभामितलीनवद्धनो लूनवर्ही च
शतशकलशबलशान्ताः स्वकामसार्थो स्वभावसमुदायाः ॥ १८ ॥
समसीमोदित दृङ्मोदितसितसारोचिताः सभासकलौ ।
सद्योतिसंभाजनसारचित स्वेच्छास्वतन्त्राश्च ॥ १६ ॥
 
सततसमर्यादससीमसदेशसमानहासिता हारी ।
हूतं हितश्च हसितं होनाद्वर्धीहसंश्चापि ॥ २० ॥
क्षिप्राग्रं च क्षुद्रव्याप्तं चैव क्षमोदितं क्षान्तम् ।
एते पुरतः शब्दा अन्येऽप्येवंविधा बुधैर्बोध्याः ॥ २१ ॥
एतैः शब्दैः पदानामन्त्याक्षराणि यथा सम्भवं त्रोटयन्ते, यथा-
फलकसल्लक्ष्मीः युद्धकारः, फलितद्रुमवत् । नरकान्तस्थितिर्विष्णुः, नृपवत् ।
शङ्खचिताटोपं भ्रच्छङ्खवादकः, पुण्यनरवत् । मुद्गाहितो मरुदेश:, पूर्णे हितवत् ।
प्रियं गूढविभवं बिभ्रद्वनं, वेश्याजनवत् । परिघनवद्धस्थितिः पुरप्रतोली, धर्म-
परवत्, प्रावृट्कालवद्वा । कचरोचिता वेणी, समुद्रवीचीवत् । तापिच्छविराजितो,
वनोद्देशो, रविवत् । सदा गजातिश्रीर्नृपो वनवत् । रसज्ञानवधिस्थितिद्विरसना-
घिपो, रसिकवत् । शृङ्गाटोपचितो वीरवर्ग:, गिरिवत् । सुरततश्रियं विद्
वेश्यावर्ग: स्वर्गवत् । स्वास्थामोदितश्रीः सुरेन्द्रो, मल्लवत् । कलदान्तस्थिति,
स्वर्णालङ्कारकारी, दक्षवत् । सुधामोदितश्री: स्वर्गो, रविवत् । उपायनवसल्लक्ष्मी-
द्वेधा नृपः । कच्छपरचितश्रीर्जलाशयो, ग्रामवत् । अधिकफलसत्स्थितिवसन्तः,