2023-04-09 14:29:18 by ambuda-bot
This page has not been fully proofread.
काव्यकल्पलतावृत्तिः
अत्र शृङ्गारवात्सल्यरसयोरभिव्यक्तिः, माधुर्यगुणस्योत्कर्षः, उपमालङ्कारस्य चमत्कारश्च
दर्शनीयः । अनेन प्रकारेणैव-
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति' ॥
मन्त्रेऽस्मिन् आत्म-परमात्म-प्रकृतिरिति त्रिभ्य उपमेयेभ्यः द्वा सयुजा सुपर्णाः
पिप्पलमित्युपमानं कविना कृतम् । अत्रातिशयोक्त्यलङ्कारस्य छटा विद्योतत एव ।
अत्रालङ्कारमाध्यमेन सृष्टिविषयकदर्शनरहस्यानां समावेशो वर्तते । मन्त्रेऽस्मिन् जीवेश्वर-
प्रकृतित्रयाणां नामपुरस्सरं नोक्त्वा रूपकालङ्कारस्य माध्यमेन जीवेश्वरौ 'द्वा सुपर्णा
सयुजा सखाया' पक्षिणौ निरूपितौ । प्रकृतिश्च विशालवृक्षरूपेण चित्रिता । 'तयोरन्य:
पिप्पलं स्वाद्वत्ति' इत्यनेन तयोः पक्षिणोः मध्ये एकः जीवरूप: पक्षी वृक्षस्य फलानि
सांसारिकसुखदुःखानि स्वकर्मानुसारं भुनक्ति । 'अनश्नन्नन्य अभिचाकषीति' द्वितीयः
परमात्मरूपः खगः फलानां भोगमकुर्वन् 'अभिचाकषीति' जगति स्वसौन्दर्यं सर्वत्र
प्रकाशयति । काव्यस्य मनोहारिण्या भाषया दार्शनिकतत्त्वानां निरूपणमीदृक् विश्व-
साहित्येऽन्यत्र दुर्लभम् । अत्र न केवलं रूपक-अनुप्रास-विभावना-विशेषोक्ति-अतिशयोक्त्य-
लङ्काराणां विभावनं भवति, अपि तु 'सयुजा, सखाया' इत्यनेन जीवात्मपरमात्मनोः
नित्यतायाः सच्चिद्रूपतायाश्चाभिव्यक्तिर्भवति, तस्मात् पदद्योत्यध्वनेरुदाहरणं परि-
पुष्णाति । सर्वमेतदलङ्कारशास्त्रं विनावगन्तुं न शक्यते ।
अत एव काव्यशास्त्रिषु राजशेखरेण "उपकारकत्वादलङ्कारः सप्तम-
मङ्गम् । ऋते च तत्स्वरूपपरिज्ञानाद् वेदार्थानवगतिः" २ इत्युक्त्वा वेदव्याख्यायै
अलङ्कारशास्त्रस्य महत्त्वं प्रतिपादितम् । पण्डितराजजगन्नाथोऽप्यतिशयोक्तिप्रसङ्गे कथयति-
'इयं चातिशयोक्तिवेंदेऽपि दृश्यते । यथा 'द्वा सुपर्णा........ चाकषीति'। सायणाचार्यो
बहुश: 'तत्र दृष्टान्तः' इति निर्देशपूर्वकं मन्त्रान् व्याचष्टे । ऋषिणा दयानन्देन स्वकीये
ऋग्वेदभाष्ये प्रायेण प्रतिमन्त्रानन्तरं श्लेष-उपमा-उत्प्रेक्षा - रूपक-व्यतिरेक-अतिशयोक्ति-
प्रभृतयोऽलङ्कारा निर्दिष्टाः । लक्षणाव्यञ्जनादीन्यपराणि च काव्यतत्त्वान्यपि निरूपि-
तानि । अलङ्कारशास्त्रस्य तत्त्वानां वेदे विद्यमानत्वाद् अन्यशास्त्रवदलङ्कारशास्त्रस्यापि
वेदोपजीवकत्वं सिद्ध्यति ।
आग्नेये विष्णुधर्मोत्तरे पुराणे च काव्यतत्त्वानां विवेचनं समुपलभ्यते । त्रेतायुगे
देवा ब्रह्माणमुपगम्य तं प्रार्थितवन्तो यत्तादृशस्य वेदस्य रचना विधेहि, येन
शूद्रा अपि
अनुशीलिताः सन्तो निःश्रेयसः भागिनो भवेयुरिति, एतन्निशम्य चतुर्भ्यो वेदेभ्य: सारमादाय
२. का. मी., द्वि. अ., पृ०६ ।
१. ऋग्वेदे, १.१६४.२० ।
३. रसगङ्गाधरे, पृ०४२१ ।