This page has been fully proofread once and needs a second look.

आमुखम्
 

 
संस्कृतसरस्वत्याः समुन्मेषो विकासः प्रभावश्च न केवलं उद्ग्रन्थेषु,

महाकाव्यादिषु, अन्यासु विस्तृतासु रचनासु, किन्तु लघुषु ग्रन्थेषु, खण्डकाव्येषु,

शतकेषु, स्तुतिषु, सुभाषितेषु, भाणप्रहसनप्रेक्षणकादिषु च दृश्यते । प्राचीनेऽपि

काले महाकविप्रतिभाभिः खण्डकाव्येष्वपि लीलायितम् । भर्तृहर्यमरुमयूरादीनां

शतकानि प्रसिद्धान्येव । अर्वाचीने तु काले कवीनां संरम्भः विशिष्य खण्ड-

काव्येषु बहुधा प्रचक्राम। अद्यतने काले संस्कृतपरिशीलकानां महाग्रन्थानां

प्रकाशने यावान् संरम्भ आदितो बभूव, तावान् आदित एव जजागार लघुकाव्यानां

संकलने समाखास्वादने च। हेबर्लिन् -विद्यासागरप्रभृतिभिः संपादिताः काव्यसङ्ग्रहाः

गतशताब्द्या मध्ये उत्तरार्धे च कल्कत्तानगरीतः प्रकाशिताः । पश्चान्मुम्बापुर्या
यां
प्रादुर्बभूवतुः ग्रन्थरत्नमाला, काव्यमाला गुच्छकरूपा च । संस्कृतविदुषां

साहित्यरसिकानां च सुपरिचिता एव काव्यमालागुच्छकाः यत्र १३१ लघुग्रन्था

मुद्रिताः । काव्यमालागुच्छकानां चतुर्दशो भाग: १९०६ - तमे वर्षे प्रकटितः ।

तदनन्तरमेतादृशं लघुग्रन्थप्रकाशनकार्यं विच्छिन्नमेव बभूव तत्र कस्यापि श्रद्धा

नोदियाय । अस्मिन्नेव समये हस्तलिखितमातृकानां मार्गणं, सञ्चयश्च भारते

तत्र तत्र केन्द्रे प्रावर्तित । बृहतां ग्रन्थानां बहुकोशसंवादसंशोधनपूर्वं संस्करणं

प्रकाशनं च संस्कृतोद्योगिनां मुख्यप्रवृत्तितया स्त्यायते स्म । किन्तु लघवो ग्रन्थाः

परः शतमगणिता मातृकास्वेव शेरते स्म । कचित् हस्तलिखितकोशागारनिर्वाहकैः

कैश्चित् लघुग्रन्थप्रकाशनार्थ प्रयत्न उपात्तः, यथा केरलेषु अनन्तशयनक्षेत्रे ।
 

 
केन्द्रशासननियोजितेन संस्कृतायोगेन विचारितेषु विषयेषु अयमप्यन्यतमः

यदस्य महतो हस्तलिखितग्रन्थराशेः प्रकाशनार्थं प्रयत्नविशेषः कार्य इति । आयोगा-

पत्यभूतेन तिरुप्पति- केन्द्रीय -संस्कृत -विद्यापीठेन आयोगनिर्दिष्टानि संस्कृताभिवृद्धि-

कार्याणि यावत्संभवं यावच्छवयं निर्वर्तनीयानि । एवं च विद्यापीठस्य यः

प्रथमः समावर्तनमहोत्सवोऽभूत् यत्र तदानींतन केन्द्रीय शिक्षामन्त्रिणः डा० श्री-

श्रीमालिमहोदयाः सन्निहिताः, तदा विद्यापीठकार्यकलापरूपरेखानिर्देशावसरे
 
"
 
-