This page has not been fully proofread.

॥ श्री-उच्छिष्टगणपतिमन्त्रमातृकास्तवः ॥
 
उन्मत्तमूर्जितश्रिय-
मुत्तंसितसामिसोमसुकुमारम् ।
 
उचितार्थदानतत्पर-
मुपमारहितं नमामि गणनाथम् ॥ २९ ॥
 
छिन्नाविद्यापारौ-
श्चित्तलयोल्लासवासनासक्तैः ।
 
गणपतिमहंपदार्थ
 
चिन्मात्रत्वेन भावितं नौमि ॥ ३० ॥
 
• ष्टान्तैर्वादिभिरेतै-
रज्ञातचरित्रमज्ञसंदोहैः ।
 
ज्ञानाज्ञानविलक्षण-
मनिशं कलभास्यमानतः सत्यम् ॥ ३१ ॥
 
यदपाङ्गसङ्गवैभव-
संपादितसर्वसिद्धिसाम्राज्याः ।
 
रुद्रादयोऽपि देवा-
स्तमहं ध्यायामि वारणेन्द्रास्यम् ॥ ३२ ॥
 
स्वात्मानुभूतिरूपं
 
समरसभावप्रभावसंसक्तम् ।
 
खातन्त्र्यसिद्धियुक्तं
 
स्वयमेवाहं भजामि कलभास्यम् ॥ ३३ ॥
 
१ ष्टान्तैः दुष्टैः वादिमिरिति योजना ।
 
?