This page has not been fully proofread.

॥ श्री उच्छिष्टगणपति मन्त्रमा तृकास्तवः ॥
 
नेतारमात्मरूपं
 
नामादिविकारभेदनिर्मुक्तम् ।
 
वेतण्डास्यं वरप्रदं नौमि ॥ १९ ॥
 
नादान्तनादरूपं
 
आन्तरपथप्रविष्ठैः
 
शिष्टैरष्टाङ्गयोगसंसिद्धैः ।
 
आराधिताविपङ्कज
 
मनिशमनीशं गणेशमहमीक्षे ॥ २० ॥
 
क्नोमित्यक्षरलक्ष्यं
 
कोकनदच्छायकोमलाकारम् ।
 
क्रोडीकृत खिलार्थ
 
कलये कलमास्यमानतः सततम् ॥ २१ ॥
 
ह्रींकारगहरोदर-
हर्यक्षाध्यक्षमक्षरं त्र्यक्षम् ।
 
भक्तकृतपक्षपातं
 
भगवन्तमहं भजामि कलभास्यम् ॥ २२ ॥
 
श्रींकारशर्करान्त-
र्मधुरिमगरिमाणमाणवाविष्ठैः ।
 
परमाद्वैतं प्रणौमि गणनाथम् ॥ २३ ॥
 
अधमैरदृश्यमेकं