This page has not been fully proofread.


 
॥ मलयमारुतः ॥
 
•ष्टापदमपूर्वमद्भुत -
 
मुच्छ्रितमनिशं ददानमीशानम् ।
 
जगतः स्वतन्त्रमाद्यं
 
जनिमृतिरहितं नमामि गणनाथम् ॥ १४ ॥
 
यमनियमासनमुख्यै-
र्योगावयवैरुपेतमात्मानम् ।
 
अध्यस्तविश्वलीला-
लास्यं कलमास्यमानतोऽस्म्यनिशम् ॥ १५ ॥
 
मधुवैरिसारसासन-
मारारिमुखामरालिसंसेव्यम् ।
 
मातङ्गाननमनिशं
 
मध्येमार्ताण्डमण्डलं मन्ये ॥ १६ ॥
 
हार्दान्धकारहंसं २
 
निहतारातिं निरङ्कुशस्फूर्तिम् ।
 
नित्यानपाथिनिर्मल-
संविन्मात्रं नमामि गणनाथम् ॥ १७ ॥
 
त्मान्ताकारपदेन ३
 
प्रतिपाद्यार्थं परात्परं पुरुषम् ।
 
पश्याम्यहं पुराणं
 
वारगवदनं वरेण्यमरुणाभम् ॥ १८ ॥
 
१ अ - पूर्व ष्टापदम् अष्टापदं, सुवर्णम् ।
२, सूर्यम् । ३, आत्मपदेन ।