Proofing

✦

This page has been fully proofread once and needs a second look.

४
 
॥ मलयमारुतः ॥
 
•
[^१] ष्टापदमपूर्वमद्भुत -
 

मुच्छ्रितमनिशं ददानमीशानम् ।
 

जगतः स्वतन्त्रमाद्यं
 

जनिमृतिरहितं नमामि गणनाथम् ॥ १४ ॥
 

 
यमनियमासनमुख्यै-

र्योगावयवैरुपेतमात्मानम् ।
 

अध्यस्तविश्वलीला-

लास्यं कलमास्यमानतोऽस्म्यनिशम् ॥ १५ ॥
 

 
मधुवैरिसारसासन-

मारारिमुखामरालिसंसेव्यम् ।
 

मातङ्गाननमनिशं
 

मध्येमार्ताण्डमण्डलं मन्ये ॥ १६ ॥
 

 
हार्दान्धकारहंसं [^२
 
]
निहतारातिं निरङ्कुशस्फूर्तिम् ।
 

नित्यानपाथिनिर्मल-

संविन्मात्रं नमामि गणनाथम् ॥ १७ ॥
 

 
त्मान्ताकारपदेन [^३
 
]
प्रतिपाद्यार्थं परात्परं पुरुषम् ।
 

पश्याम्यहं पुराणं
 

वारगवदनं वरेण्यमरुणाभम् ॥ १८ ॥
 
१

 
[^१]
अ - पूर्व ष्टापदम् अष्टापदं, सुवर्णम् ।

[^
२,] सूर्यम् ।
[^
३,] आत्मपदेन ।