This page has been fully proofread once and needs a second look.

दरहासभासमानं
दर्वीकरनिकरकल्पिताकल्पम् ।
दयमानमानतेषु
द्विरदाननमानमामि गणनाथम् ॥ ९ ॥
 
रागद्वेषविहीनै-
राराधितमात्मभावसंसिद्धैः ।
राजीवलोचनाद्यै-
रनिशं प्रणमामि वारणास्यमहम् ॥ १० ॥
 
यजनादिकर्मफलदं
यजुराद्याम्नायसारभूतार्थम् ।
यावकरसारुणाभं
योगीश्वरमाश्रयामि गणनाथम् ॥ ११ ॥
 
उष्णांशुपावकेन्दु-
प्रकरप्रौढप्रकाशपारम्यम् ।
ऊरीकृतोर्ध्वमाया-
विन्यासमहं नमामि गणनाथम् ॥ १२ ॥
 
छित्त्वाणवायुपाधीन्
भित्त्वैव ग्रन्थिजालमुन्मील्य ।

गत्वा खात्मसरोजं
तत्त्वार्थमहं नमामि गणनाथम् ॥ १३ ॥