This page has not been fully proofread.


 
॥ मलयमारुतः ॥
 
मुग्धेन्दुमुद्रितालिक-
मुन्नतकोटीरमूर्जितौदार्यम् ।
 
मुनिजनमनोविनोदन-
साधनमाराधयामि गणनाथम् ॥ ४ ॥
 
खाटीकदम्बकल्पित-
पाटीरमुखोपचारसंतुष्टम् ।
 
घोटीसमानघार्टी
 
कवितां तन्वानमन्वहं नौमि ॥ ५ ॥
 
यक्षाधिराजपूजित-
पादुकमा कल्पिता खिलैश्वर्यम् ।
 
उक्षारूढकुमारं
 
शिक्षाकरमाश्रयामि शत्रूणाम् ॥ ६ ॥
 
लम्बितविश्वविलासं
 
लङ्गेयतरशासनं पराकारम् ।
 
ललनालंकृतवपुषं
 
लम्बोदरमाश्रयामि लक्ष्यार्थम् ॥ ७ ॥
 
बोधाकुरालवालं
 
बाधाकरमाग्रहस्य दुष्टानाम् ।
 
मेधाविधानसाधन-
माधाय नमामि वारणास्यमहम् ॥ ८ ॥
 
१. खे अटन्तीति खाटय : दिव्यस्त्रियः । श्लोकोऽयं 'चेटीभवन्' इत्यम्बाष्टकस्
श्रोकमनुकरोति ।